ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 22, कुल 91 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः । १९ सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं स्वनच्छब्दायमा- नमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् । यद्गोत्सवे हर्ष उत्सुकमु- त्कण्ठितम् । विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं परिरम्भणं चुम्बनं च तत्राकुलं व्याकुलं बर्हिणां कलापिनां कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥ निपातयन्त्यः १ परितस्तटद्रुमा- न्प्रवृद्धवेगैः २ सलिलैरनिर्मलैः । स्त्रियः ३ सुदुष्टा इव ४ जातिविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥ ७ ॥ निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाह उत्साहो वा येषां तैस्तथोक्तैः । अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलैर्ला- वण्यजलैर्वा । 'सलिलं कमलं जलम्' इत्यमरः । परितः स- मन्ततस्तटद्रुमांस्तटप्ररूढवृक्षान्पितृमातृकुलजनाभिभावकान्वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्यो वा सुदुष्टाः स्त्रिय इव जात उत्पन्नो विभ्रमः शृङ्गारादिचेष्टाभेदो यासां तास्त- थोक्ताः । जातविभ्रमाः समुत्पन्नभ्रमविशिष्टाः नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥ तृणोत्करैरुद्गतकोमलाङ्कुरै- ३ र्विचित्रैनीलैर्हरिणीमुखक्षतैः । १. 'विपाटयन्त्यः' २. 'प्रहृष्टाः'; 'प्रकामाः'. ३. 'तृणोद्गमैः' ४. 'चितानि.' ५. 'लेखैः'.