ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 28, कुल 91 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः । २५ र्मयूरैः समाकुला व्याकुला भूधराः समुत्सुकत्वम् । चित्तस्ये- ति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः ॥ कदम्बसर्जार्जुनकेतकीवनं¹ विकम्पयंस्तत्कुसुमाधिवासितः² ³ । ससीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥ १७ ॥ कदम्बेति ॥ कदम्बो नीपः, सर्जोऽश्वकर्णः, अर्जुनः ककु- भः, केतक्यश्च तासां वनं समुदायम् । ‘नीपप्रियककदम्बा- स्तु हरिप्रियः’ इत्यमरः । ‘साले तु सर्जकार्याश्वकर्णकाः सस्यसम्बरः’ इत्यमरः । ‘इन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः । विकम्पयंस्तेषां पूर्वोक्तद्रुमाणां कुसुमैः पुष्पैर्धिवासितः सं- जाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्त- स्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । ‘स- मीरमारुतमरुज्जगत्प्राणसमीरणाः’ इत्यमरः । कं पुरुषं सो- त्सुकं सोत्कण्ठं न करोति । अपि तु सर्वमेवेत्यर्थः ॥ शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः । स्तनैः सँहारैर्वदनैः ससीधुभिः⁴ स्त्रियो रतिं संजनयन्ति कामिनाम् ॥ १८ ॥ शिरोरुहैरिति ॥ स्त्रियस्तरुण्यः श्रोणितटे कटिपश्चाद्भा- गेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः । ‘चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः’ इत्यमरः । कृतावतंसैः सुग- १ ‘नीपकेतकीः’. २ ‘प्रकम्पयन्’. ३ ‘अधिवासनः’. ४ ‘सुपीनैः’.