भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 39, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 39

३६ ऋतुसंहारे 'नक्षत्रमृक्षं भं तारा' इत्यमरः । उद्द्वहन्ती दधती । मेघैः कृत्वा योऽवरोधो व्यवधानं तस्मात्परिमुक्तो यः शशाङ्कश्चन्द्रः स एव वक्त्रं वदनं यस्याः सा । पक्षे मेघ इव योऽवरोधो वधूटिवयोऽवलम्बनीयो मुखवसनाच्छादनव्यवहारस्ततः परिमुक्तं तन्नियमानधीनं शशाङ्कमिव चन्द्रमिव वक्त्रं मुखं यस्याः सा । अमलं निर्मलं ज्योत्स्नैव दुकूलं वसनं दधाना परिधानं कृतवती सा । पक्षे ज्योत्स्नेवामलं दुकूलं दधाना सेति । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । रजनी या- मिनी । 'रजनी यामिनी तमी' इत्यमरः । प्रमदा बाला चानुदिनं प्रतिदिनं वृद्धिं प्रयाति गच्छतीत्यर्थः ॥ कारण्डवाननविघट्टितवीचिमालाः कादम्बसारसचयाकुलतीरदेशाः । कुर्वन्ति हंसविरुतैः परितो जनस्य प्रीतिं ²सरोरुहरजोरुणितास्तटिन्यः ॥ ८ ॥ कारण्डवेति ॥ कारण्डवानां पक्षिविशेषाणामाननैर्वदनै- र्विघट्टिता वीचिमालास्तरङ्गपङ्क्तयो यासु तास्तथोक्ताः । 'भङ्ग- स्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः' इत्यमरः । कादम्बानां कल- हंसानां सारसानां पुष्कराह्वानां चयेन समुदायेनाकुलो व्या- कुलस्तीरदेशो यासां तास्तथोक्ताः । 'कादम्बः कलहंसः स्यात्' इत्यमरः । 'पुष्कराह्वस्तु सारसः' इत्यमरः । सरोरु- हाणां कमलानां रजोभी रेणुभिररुणिता आरक्ताः । 'परागः सुमनोरजः' इत्यमरः । तटिन्यस्तरङ्गिण्यः । 'तरङ्गिणी शैव- १ 'कुलाकुल.' २ 'सरोरुहरजोरुणिताश्च नद्यः,' 'परां कमलरेणु- वृतास्तटिन्यः.'

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या) · पृष्ठ 39, कुल 91 में से · BharatKosha