ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 47, कुल 91 में से
संदर्भ में पढ़ें४४ ऋतुसंहारे हंसा हंसविशेषाः स्थिता येषु तेषां तथोक्तानाम् । 'राजहं- सास्तु ते चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । मरकतमणे- र्भा इव भाः कान्तिर्यस्य तेन तथोक्तेन वारिणा जलेन भूषितानां शोभितानां तोयाशयानां जलाशयानामतिशयरू- पामत्यन्तसुन्दरां श्रियं शोभां वहति धत्त इत्यर्थः । मालि- नीवृत्तम् । तल्लक्षणं तु पूर्वोक्तम् ॥ शरदि १कुमुदसङ्गाद्२वायवो ३वान्ति शीता ४विगतजलदवृन्दा दिग्भागा मनोज्ञाः । विगतकलुषमम्भः ५श्यानपङ्का धरित्री विमलकिरणचन्द्रं व्योम ताराविचित्रम् २२ शरदीति ॥ शरदि शरत्काले कुमुदस्य कैरवस्य सङ्गा- त्संसर्गाच्छीताः शीतला वायवः पवना वान्ति वह- न्ति । दिग्भागा आशाप्रान्ताः । 'दिशस्तु ककुभः काष्ठा आशाश्च' इत्यमरः । विगतानि जलदानां मेघानां वृन्दानि समूहा येभ्यस्ते तथोक्ता अत एव मनोज्ञाः सुन्द- राः । अम्भो जलं विगतं विनष्टं कलुषं कालुष्यं यस्य १ 'कुसुम'. २ 'तोयात्.' ३ 'यान्ति.' ४ 'विशद.' ५ 'शालिपक्वा.' २२-२३ श्लोकयोर्मध्येऽयमंशो दृश्यते— करकमलमनोज्ञाः कान्तसंसक्तहस्ता वदनविजितचन्द्राः काश्चिदन्यास्तरुण्यः । रचितकुसुमगन्धि प्रायशो यान्ति वेश्म प्रबलमदनहेतौ सूक्तसङ्गोक्तरम्याः ॥ सुरतरुचिविलासाः सत्सखीभिः समेता असमशरविनोदं सूचयन्ति प्रकामम् । अनुगतमुखराभिः श्रोणिमध्ये विनोदं शरदि तरुणकान्ताः सूचयन्ति प्रमोदान् ॥