ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 52, कुल 91 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः । ४९ नेति ॥ विलासिनीनां बाहुयुग्मेषु करयुगेषु वलयानि कटकान्यङ्गदानि केयूराणि तानि । 'कटको वलयोऽस्त्रियाम्' इत्यमरः । 'केयूरमङ्गदं तुल्ये' इत्यपि । सङ्गं संबन्धं न प्रयान्ति न प्राप्नुवन्ति । नवं नूतनं दुकूलं वस्त्रं नितम्बबि- म्बेषु कटिपश्चाद्भागेषु सङ्गं न प्रयाति । तनु सूक्ष्ममंशुकं वस्त्रं कञ्चुक्यादि पीनाः परिपुष्टा ये पयोधराः कुचास्तेषु सङ्गं न प्रयातीति वचनविपरिणामेनान्वयः ॥ काञ्चीगुणैः काञ्चने१रत्नचित्रै- र्नो भूषयन्ति प्रमदा नितम्बम् २ । न नूपुरैर्हंसरुतं भजद्भिः पादाम्बुजान्यम्बुजकान्तिभाँञ्जि ३ ॥ ४ ॥ काञ्चीति ॥ प्रमदाः स्त्रियो नितम्बं काञ्चनं स्वर्णं रत्नानि च तैश्चित्रैश्चमत्कृतैः काञ्चीगुणै रसनाकलापैर्नो भूषयन्ति नालंकुर्वन्ति । तथाम्बुजस्य कमलस्य कान्तिं भजन्ति तानि तथोक्तानि पादाम्बुजानि चरणकमलानि हंसरुतं मरालवि- रुतं भजद्भिर्नूपुरैर्मञ्जीरैर्न भूषयन्ति । उपजातिवृत्तमेतत् । तल्लक्षणं तु—'स्यादिन्द्रवज्रा यदि तौ जगौ गः । उपेन्द्र- वज्रा जतजास्ततो गौ । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ॥ गात्राणि कालीयकचर्चितानि सपत्रलेखानि मुखाम्बुजानि ४ । १ 'रत्न'. २ 'नितम्बान्'. ३ 'भान्ति'. ४ 'नखाम्बुजानि'.