ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 58, कुल 91 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः । ५५ निर्माल्यदाम परिमुक्तमनोज्ञगन्धं मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः । पीनोन्नतस्तनभरानतगात्रयष्ट्यः कुर्वन्ति केशरचनाम¹परास्तरुण्यः ॥ १५ ॥ निर्माल्येति ॥ घनवन्मेघवद्घनाः संकीर्णा वा नीलाः कृष्णवर्णाः शिरोरुहान्ताः केशप्रान्ता यासां तास्तथोक्ताः । पीनाः पुष्टा उन्नताश्च ये स्तनाः कुचास्तेषां भरेण भारेण नता नम्रा गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता अपरा अन्यास्तरुण्यो युवत्यः परिमुक्तस्त्यक्तो मनोज्ञः सुन्दरो गन्धो येन तत्तथोक्तम् । निर्माल्यदाम निर्माल्यभूतां स्रजं मूर्ध्नः शिर- सोऽपनीय दूरीकृत्य केशानां कुन्तलानां रचनां कुर्वन्ति । अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचा²रुशोभा । ³कूर्पासकं परिदधाति ⁴नखक्षताङ्गी ⁵व्यालम्बिनीलललितालककुञ्चिताक्षी ॥ १६ ॥ अन्येति ॥ प्रियेण कान्तेन परिभुक्तं संभुक्तं गात्रं शरी- रमवेक्ष्य दृष्ट्वा हर्षेणानन्देनान्विता युक्ता । विरचिता कृताधर ओष्ठे चारुशोभा नखकृतरेखया दन्तक्षतैर्वा यस्याः सा तथो- क्ता । नखैर्नखरैः क्षतं कारितमङ्गं शरीरं यस्याः सा तथो- क्ता । व्यालम्बिनीभिर्ललद्भिर्नीलवर्णैर्ललितैः सुन्दरैरलकैः कु- न्तलैः कुञ्चिते आकुञ्चिते अक्षिणी यस्याः सा तथोक्तान्या १ 'अबलाः'. २ 'रागशोभा;' 'गण्डशोभा'. ३ 'रक्तांशुकम्'. ४ 'नवं नताङ्गी'. ५ 'व्यालम्बिताङ्गुलिलता'.