भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 66, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 66

पञ्चमः सर्गः । ६३ रिभुक्तं स्वं देहं निजं शरीरं वीक्षमाणा पश्यन्ती हसन्ती स्मे- राननैका योषित्स्त्री प्रभाते प्रातःकाले शयनवासादन्यद्वासं मन्दिरं व्रजतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥ अगुरुसुरभिधूपा¹मोदितं केश²पाशं गलितकुसुममा³लं तन्वती कुञ्चिताग्रम् । त्यजति गुरुनितम्बा निम्नमध्यावसौन्ना उषसि ⁵शयनमन्या कामिनी ⁷चारुशोभा ॥ अगुर्विति ॥ अगुरोः सुरभिणा सुगन्धिना धूपेनामोदि- तः संजातसौरभस्तं तथोक्तम् । गलिता स्रस्ता कुसुममाला यस्य तं तथोक्तम् । कुञ्चिताग्रं कुञ्चिता वक्रभावापन्ना अग्रा अग्रभागा यस्य तादृशं केशपाशं केशसमूहं तन्वती । गुरु- नितम्बा गुरू नितम्बौ यस्याः सा तथोक्ता । निम्नं कृशं मध्यावसानं मध्यप्रान्तो यस्याः सा तथोक्ता । चारुशोभा सु- न्दरशोभान्या कामिनी र्युषसि प्रातःकाले शयनं पर्यङ्कम् । ‘शयनं मञ्चपर्यङ्कपत्यङ्काः’ इत्यमरः । त्यजति मुञ्चतीत्यर्थः । क्वचित्पुस्तके ‘निम्नमध्यावसन्ना’ इति पाठः । तदर्थस्तु निम्नेन मध्येनावसन्ना खिन्नेति निम्नमध्यावसन्ना । ‘उषसि’ इत्यत्र विवक्षाप्राप्तत्त्वान्न संहिता तदुक्तम्—‘संहितैकपदे नि- त्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा वि- वक्षामपेक्षते ॥’ इति ॥ कनककमलकान्तैः ⁸सद्य एवाम्बुधौतैः ⁹श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः । १ ‘आमोदितान्’. २ ‘केशपाशान्’. ३ ‘मालान्’. कुञ्चि- ताग्रं वहन्ती’, ‘धुन्वती कुञ्चिताग्रान्’. ५ ‘निम्ननाभिः सुमध्या. ६ ‘शयनवासम्;’ ‘शयनमध्या’. ७ ‘कामशोभा;’ ‘कामशोभाम्’. ८ ‘चारुविम्बाधरोष्ठैः’. ९ ‘श्रवणतटनिषिक्तैः;’ ‘स्मरदमृतनिषक्तैः.