ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 71, कुल 91 में से
संदर्भ में पढ़ें६८ ऋतुसंहारे ¹रक्तांशुकैः ²कुङ्कुमरागेगौरै- रलंकियन्ते स्तनमण्डलानि ॥ ४ ॥ कुसुम्भेति ॥ कुसुम्भस्य रागेणारुणितानि रक्तानि तैस्त- थोक्तैर्दुकूलैर्वस्त्रैर्विलासिनोनां विलासवतीनां नितम्बबिम्बानि । कुङ्कुमस्य केसरस्य रागेण गौराः पिञ्जरास्तैस्तथोक्तै रक्तांशुकै रक्तवस्त्रैः स्तनमण्डलानि कुचमण्डलान्यलंकियन्त इत्यर्थः ॥ कर्णेषु योग्यं नवकर्णिकारं चलेषु नीलेष्वलकेष्व⁴शोकम् । ⁵पुष्पं च फुल्लं ⁶नवमल्लिकायाः ⁷प्रयाति कान्तिं ⁸प्रमदाजनानाम् ॥ ५ ॥ कर्णेष्विति ॥ प्रमदाजनानां वनिताजनानां कर्णेषु श्रव- णेषु योग्यमवतंसयोग्यं नवं नूतनं कर्णिकारं कर्णिकारकुसु- मम् । 'अथ द्रुमोत्पलः । कर्णिकारः परिव्याधः' इत्यमरः । चलेषु चञ्चलेषु नीलेषु कृष्णवर्णेष्वलकेष्वशोकं वञ्जुलकुसुम- म् । 'वञ्जुलोऽशोके' इत्यमरः । फुल्लं संफुल्लं नवमल्लिकायाः पुष्पं च । जात्यभिप्रायेणैकवचनम् । कान्तिं शोभां प्रयाति प्राप्नोतीत्यर्थः ॥ स्तनेषु हाराः सितचन्दनाद्र्रा भुजेषु संङ्गं वलयाङ्गदानि । १ 'तन्वंशुकैः' २ 'पिञ्जरैः. ३ 'स्तनेषु हाराः.' ४ 'अशोकः'. ५ 'शिखासु फुल्लाः', 'शिखासु मालाः'. ६ 'नवमालिकाश्च'. ७ 'प्र- यान्ति शोभाम्'. ८ 'प्रमदाजनस्य'. ९ 'कम्बूवलयाङ्गदानि'.