ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 8, कुल 91 में से
संदर्भ में पढ़ेंप्रथमः सर्गः । ५ समुद्गतेति ॥ समुद्गतो निर्गतो यः खेदो घर्मस्तेन चिता व्याप्ता अङ्गसंधयो बाहुमूलादयो यासां तास्तथोक्ताः स- यौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः स्त्रियः सांप्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्ममंशुकं वासः क- ञ्चुक्यादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥ सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः । सवल्लकीकाकलिगीतनिस्वनै- र्विबोध्यते सुप्त इवाद्य मन्मथः ॥ ८ ॥ सेति। चन्दनाम्बुना चन्दनजलेन । चन्दनद्रवेणेति यावत्। सहितं युक्तं यद्व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः । हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्ड- लानि कुचमण्डलानि तेषामर्पणैः। वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः। ‘वीणा तु वल्लकी’ इत्यमरः। ‘काकली तु कले सूक्ष्मे’ इत्यमरः। ‘गीतं गानमिमे समे’ इत्यमरः । अद्य मन्मथः कामः सुप्त इव निद्रित इव । राजेवेत्यर्थः । विबोध्यत उद्बुध्यते । सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः । विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति हियेर्वे पाण्डुताम् ॥ ९ ॥ सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु १. ‘अर्पितैः.’ २. ‘प्रबुध्यते’, ‘प्रबोध्यते.’ ३. ‘नियन्त्रणम्.’ ४. ‘एव.’