रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 100, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः १३ [ प्रासादमानेनोर्द्ध्वस्थज्येष्ठप्रतिमालक्षणम् ] एकहस्ते तु प्रासादे मूर्त्तिरेकादशाङ्गुला । दशाङ्गुला ततो वृद्धिर्यावद्धस्तचतुष्टयम् ॥११॥ [ ऊर्द्ध्वस्थप्रतिमाया मध्यमाधमभेदकथनम् ] द्व्यङ्गुला दशहस्तान्ता शतार्द्धान्ताऽङ्गुलस्य च । अतो विंशदशांशोना मध्यमार्चा कनीयसी ॥१२॥ एवञ्च तत्रैव ग्राह्याग्राह्यवृक्षानभिधाय तदभिमन्त्रणमाह— अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः । नमस्ते वृक्ष पूजेयं विधिवत् संप्रगृह्यताम् ॥ यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम् । अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ इति (अ० ५८, १०-११ श्लो०) गृहकाष्ठाहरणप्रकारोऽप्येतदनुरूपः समराङ्गणसूत्रधारे परिलक्ष्यते । तत्राहरणमन्त्रस्तु— अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि । कल्पनं वर्त्तयिष्यामि क्रियतां वासपर्ययः ॥ (अ० १६, २७ श्लो०) तदेतत् सर्वं शेषतो जिज्ञासुभिः समराङ्गणसूत्रधार-(अ० १६) काश्यपशिल्प-(अ० ४९) मयमत-(अ० ३३) बृहत्संहितासु (५८ वनसम्प्रवेशाध्याये) द्रष्टव्यम् । ११ । अथ प्रथमं प्रासादमानेन ऊर्द्ध्वस्थायाः ( दण्डायमानायाः ) प्रतिमायाः प्रमाणम् उच्यते—एकहस्त इत्यादिना । एकहस्ते प्रासादे मूर्त्तिरेकादशाङ्गुला भवेत् । ततो हस्तचतुष्टयं यावत् प्रतिहस्ते दशाङ्गुला वृद्धिः । अर्थात्, द्विहस्ते प्रासादे मूर्त्तिरेकविंशत्यङ्गुला, त्रिहस्ते एकत्रिंशदङ्गुला, चतुर्हस्ते एकचत्वारिंशदङ्गुला भवेत् । १२ । ततो दशहस्तान्ता द्व्यङ्गुला वृद्धिः, अर्थात् पञ्चहस्तादिदशहस्तान्तप्रासादेषु प्रतिहस्ते द्व्यङ्गुला वृद्धिः, तेन पञ्चहस्तप्रासादे त्रिचत्वारिंशदङ्गुला प्रतिमा, षड्ढस्तप्रासादे पञ्चचत्वारिंश- दङ्गुला, सप्तहस्ते सप्तचत्वारिंशदङ्गुला, अष्टहस्ते ऊनपञ्चाशदङ्गुला, नवहस्ते एकपञ्चाशदङ्गुला, दशहस्ते त्रिपञ्चाशदङ्गुला प्रतिमा स्यादित्यर्थः । शतार्द्धान्ताङ्गुलस्य च—शतार्द्धान्ता शतार्द्धहस्तान्ता वृद्धिरित्यस्य विशेषणम् । वृद्धिरङ्गुलस्य एकाङ्गुलस्य ; एकादशहस्तादिपञ्चाशद्धस्तान्तप्रासादेषु प्रतिहस्ते एकैकाङ्गुला वृद्धिरित्यर्थः । तेन च एकादशहस्तप्रासादे चतुःपञ्चाशदङ्गुला प्रतिमा, द्वादशहस्ते पञ्चपञ्चाशदङ्गुला, त्रयोदशहस्ते