भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 102, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 102

प्रथमोऽध्यायः १५ [ आसनस्थोत्तमप्रतिमापरिमाणम् ] हस्तादेर्वेदहस्तान्ते षड्वृद्धिः स्यात् षडङ्गुला । तदूर्ध्वं दशहस्तान्ता त्र्यङ्गुला वृद्धिरिष्यते । एकाङ्गुला भवेद् वृद्धिर्यावत् पञ्चाशद्धस्तकम् ॥१३॥ प्रासादस्य प्रतिमाया प्रासादस्य प्रतिमाया हस्तमानम् अङ्गुलिमानम् हस्तमानम् अङ्गुलिमानम् ३९ ... ... ८२ ४५ ... ... ८८ ४० ... ... ८३ ४६ ... ... ८९ ४१ ... ... ८४ ४७ ... ... ९० ४२ ... ... ८५ ४८ ... ... ९१ ४३ ... ... ८६ ४९ ... ... ९२ ४४ ... ... ८७ ५० ... ... ९३ १३। इदानीमासनस्थमूर्त्तीनां परिमाणमुच्यते । षडङ्गुला आसनस्था मूर्त्तिः हस्तादे- रेकहस्ताद् वेदहस्तान्ते चतुर्हस्तपर्यन्तप्रासादे षड्वृद्धिः षट् षट् वृद्धैर्यस्याः प्रतिमायास्तादृशी स्यात् । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्ते अर्थात् एकहस्तप्रासादे मूर्त्तिः षडङ्गुला, द्विहस्तप्रासादे द्वादशाङ्गुला, त्रिहस्ते अष्टादशाङ्गुला, चतुर्हस्ते चतुर्विंशत्यङ्गुला भवेत् । तदूर्ध्वं पञ्चहस्तप्रासादमारभ्य दशहस्तान्ता त्र्यङ्गुला वृद्धिरिष्यते । तथा हि—पञ्चहस्त- प्रासादे सप्तविंशत्यङ्गुला मूर्त्तिः, षड्ढस्तप्रासादे त्रिंशदङ्गुला, सप्तहस्ते त्रयस्त्रिंशदङ्गुला, अष्टहस्ते षट्त्रिंशदङ्गुला, नवहस्ते ऊनचत्वारिंशदङ्गुला, दशहस्ते द्विचत्वारिंशदङ्गुला मूर्त्तिर्भवेदित्यर्थः । ततः पञ्चाशद्धस्तकं यावत् एकादशहस्तादिपञ्चाशद्धस्तान्तमित्यर्थः, एकाङ्गुला प्रतिहस्ते एकैकाङ्गुला वृद्धिर्भवेत् । तेन एकादशहस्तप्रासादे त्रिचत्वारिंशदङ्गुला मूर्त्तिः, द्वादशहस्ते चतुश्चत्वारिंशदङ्गुला मूर्त्तिः, एवंक्रमेण वृद्ध्या पञ्चाशद्धस्तप्रासादे द्व्यशीत्यङ्गुला मूर्त्तिर्भवेदित्यर्थः । इत्यासनस्था द्वितीयाः प्रतिमाः पञ्चाशत्संख्याकाः । प्रासादपरिमाणेन आसनस्थप्रतिमापरिमाणम् । प्रासादस्य प्रतिमाया प्रासादस्य प्रतिमाया हस्तमानम् अङ्गुलिमानम् हस्तमानम् अङ्गुलिमानम् १ ... ... ६ ५ ... ... २७ २ ... ... १२ ६ ... ... ३० ३ ... ... १८ ७ ... ... ३३ ४ ... ... २४ ८ ... ... ३६