रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 126, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः ३६ बिन्दुपातस्य रेखापातस्य च नियमः शून्ये तु बिन्दवश्चाष्टौ रेखैके रसविन्दवः । चत्वारो बिन्दवो युग्मे द्विविन्दू रामरेखके ॥ ३ ॥ समो रेखाचतुर्थे तु पञ्चके नेत्ररेखके । षड्रेखासु चतू रेखाः सप्तमे रसरेखिकाः ॥ ४ ॥ पूर्वोक्तप्रकारेण द्विगुणितरेखासङ्ख्याकादष्टौ वियोजयेत् । तेन शून्येऽवशिष्टे बिन्द्वष्टकं रक्षेत् । एकेरेखायामवशिष्टायां बिन्दुषट्कम्, रेखाद्वये बिन्दुचतुष्टयम्, रेखात्रये बिन्दुद्वयं रक्षेत् ; रेखाचतुष्टये स्थिते समो भवेत् ; रेखापञ्चके रेखाद्वयम्, रेखाषट्के रेखाचतुष्टयम्, रेखासप्तके रेखाषट्कं भवेत् । इत्थं रेखाबिन्दुपातेन फलं विचार्यम् । रेखाभिस्तु शुभं ज्ञेयं बिन्दुभिरशुभं फलम् । यत्र रेखा न बिन्दुश्च तत् समं परिकीर्त्तितम् ॥ ५ ॥ रेखायोगेन बिन्दुयोगेन वा ग्रहाणां फलम् स्वोच्चमित्रादिवर्गस्थाः केन्द्रादिबलसंयुताः । अनिष्टफलदाः सर्वे स्वल्पबिन्दुयुता यदि ॥ ६ ॥ दुष्टस्थानस्थिता ये च ये च नीचारिभांशगाः । ते सर्वे शुभदा नित्यमधिबिन्दुयुता यदि ॥ ७ ॥ दिनेशमुख्यग्रहवर्गकेषु यदा शनिः शून्यगृहं प्रयातः । करोति पित्रादिकभावजानामतीव रोगारिभयाकुलानि ॥ ८ ॥ एतेषामर्थः—उच्चस्थो मित्रादिवर्गगतः केन्द्रादिस्थो वा बलवान् ग्रहो वर्गाष्टकचक्रे एकादिस्वल्पबिन्दुयुक्तराशिस्थ एकादिस्वल्परेखायुक्तराशिस्थो वा चेदनिष्टफलप्रदः । षडादिदुःस्थानस्थो नीचराशिनवांशास्थः शत्रुक्षेत्रनवांशास्थो वा नितरां दुर्बलोऽपि ग्रहः बिन्दु- युक्तराशिस्थो रेखायुक्तराशिस्थो वाचेत् शुभफलप्रदः । रव्यादिग्रहाणामष्टवर्गे रेखाहीनेऽष्टशून्ययुक्ते वा राशौ शनिर्गोचरवृत्त्या गतश्चेत् तद्राशिनिर्दिष्ट- भावफलस्यानिष्टम्, रोगम्, शत्रुवृद्धिम्, तथा भयाकुलत्वादिकम्, तद्भावनिर्दिष्टञ्च पितृभ्रात्रा- दीनामपि तद्रूपमशुभं परिकल्पयेत् । अष्टवर्गे रव्यादिग्रहाणां विशेषफलं ग्रन्थबाहुल्यभयादिह परित्यक्तं ज्योतिषग्रन्थे तदनुसन्धेयम् ।