रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 132, कुल 335 में से
संदर्भ में पढ़ेंद्वितीयाऽध्यायः ४५ एवञ्च रामादीनां प्रमाणं दश तालास्ते च विंशत्यधिकं शतमङ्गुल्य इत्यायातम् । एतेन— 'उत्तमं दशतालं स्याच्चतुर्विंशच्छताङ्गुलम्' ( शि० उ० ४ अ० ३७ श्लो०, काश्यप० ९० अ० ७७ श्लो० ) इति यच्छिल्परत्न-काश्यपशिल्पयोरुक्तं तच्चिन्त्यम् । एतन्मते तालादीनामुत्तममध्यमाधमभेदेन त्रैविध्यमुक्तम्, तथा च काश्यपशिल्पे पूर्वोद्धृतादर्द्धात् परम्— मध्यमं दशतालं स्याद् भानुषङ्क्त्यङ्गुलं भवेत् । कलाधिकशताङ्गुल्यमधमं दशतालकम् । सद्वादशशतं भागं नवतालोत्तमं भवेत् ॥ अष्टोत्तरशतांशन्तु मध्यमं नवतालकम् । कन्यसं नवतालं स्याद् द्वेधा( स्याद्भेदा )धिकशतं भवेत् ॥ तालं प्रत्येवमेवं तु क्रमाद् वेदाङ्गुलं हरम् ( अ० ९०, ७७-८० श्लो० ) इत्युक्तम् । शिल्परत्नोत्तरभागेऽपि यथोक्ताच्छ्लोकादर्द्धत्रितयात् परम्— 'तालं प्रत्येवमेवन्तु क्रमाद् वेदांशहानितः' ( अ० ४, ३८ श्लो० ) इत्युक्त्वा सर्वेषामेव तालानां चतुश्चतुरङ्गुलहान्या उत्तममध्यमाधमत्वं प्रतिपादितम् । तन्न मत्स्यपुराणे यद्दशतालप्रमाणत्वमुक्तं रामादीनां तन्मध्यमं दशतालमादायैवेत्यभ्युपगमेन जातेऽपि कथञ्चित् समाधाने, बृहत्संहितायां 'द्वादशहान्ये' (अ० ५७, ३० श्लो० )त्यादि यदुक्तं तेन त्वसामञ्जस्यं दुष्परिहरमेव । 'द्वादशहान्ये'त्यादिपरार्द्धस्य त्वयमर्थः—शेषा अन्याः प्रतिमा द्वादशहान्या द्वादशकद्वादशकहीनत्वेन प्रवरसमन्यूनपरिमाणा भवन्ति । विंशत्यधिकाङ्गुल- शताद् द्वादशाङ्गुलान्यपास्याष्टाधिकं शतमङ्गुलानां प्रतिमा प्रधाना भवति । ततोऽपि द्वादशक- मपास्य षण्णवत्यङ्गुलसमा मध्यमा प्रतिमा, ततोऽपि द्वादशकमपास्य चतुरशीत्यङ्गुला न्यूनपरिमाणा प्रतिमा भवतीत्यर्थः, एवमेवोत्पलभट्टाः । एतच्च परिमाणं काश्यपशिल्पादिमते मध्यमनवतालादि- सप्ततालान्तप्रतिमाया इति ज्ञेयम्, मध्यमनवतालस्याष्टाधिकशताङ्गुलत्वादन्ते सप्ततालस्य चतुर- शीत्यङ्गुलत्वाच्च । परं सप्तभिस्तालैर्देवप्रतिमाया विधानं नोपलभ्यते, तैः 'पिशाचाः सप्तमेन तु' ( अ० ९०, ८७ श्लो० ) इत्यादिना पिशाचानामेव काश्यपशिल्पे कर्तन्यतोपदेशात् । समराङ्गण- सूत्रधारेऽपि— देवादीनां शरीरं स्याद् विस्तारेणाष्टभागिकम् । त्रिंशद्भागायतं चैतद् विदध्याच्चित्रशास्त्रवित् ॥ इति भागमानेन यत् प्रतिमाया मानमुक्तम्, तेनाऽपि विंशत्यधिकशताङ्गुलमेव प्रतिमायाः परिमाणं भवति, भागस्य चातुराङ्गुल्याभिधानात्, बृहत्संहितायाञ्च देवप्रतिमाया एव चतुरशीत्यङ्गुल- मानायाः कनीयस्त्वकथनाच्च ।