रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 143, कुल 335 में से
संदर्भ में पढ़ें५६ देवतामूर्त्तिप्रकरणम् चण्ड्या एकोनषष्ट्यंशे भैरवी तद्व्यधिके । वेतालस्य विषष्ट्यंशे पदं शून्यं तदूर्द्ध(दूर्ध्वं ?)तः ॥ १७ ॥ लिङ्गाग्रे नैव कर्त्तव्या ह्यर्चारूपेण देवताः । प्रभानष्टा नभोगा य(श्र?) यथा तारा दिवाकरे ॥ १८ ॥ शिवस्याग्रे शिवं कुर्याद् ब्रह्माणं ब्रह्मणोऽग्रतः । विष्णौ विष्णुः(ष्णुं ?) जिने जैनं सूर्ये सूर्यमनुक्रमात् ॥ १६॥ मातरश्चण्डिकाग्रे स्युर्यक्षाः क्षेत्रादिभैरवः । स्वे स्वे स्थाने सुराः स्थाप्या ये यस्यापि हितावहाः ॥ २० ॥ ब्रह्मविष्णोरेकनाभिर्जि(जि?)ने दोषो न विद्यते । शिवाग्रे चान्यदेवस्य दृष्टिवेधे महद् भयम् ॥ २१ ॥ ब्रह्मा विष्णुः शशी सूर्य इन्द्रः स्कन्दो हुताशनः । दिक्पाला लोकपालाश्च ग्रहा मातृगण(णा?)स्तथा ॥२२॥ १७। भैरवीति भैरवस्य दृष्टिः । पदमिति । तदूर्द्धतः त्रिषष्ट्यंशान् परतः शून्यं पदं दृष्टि- स्थानं भवति, विषमद्वारांशस्य त्रिषष्ट्यंश एव निःशेषितत्वात् । १८। लिङ्गाग्र इति । लिङ्गाग्रे शिवलिङ्गाग्रे अर्चारूपेण प्रतिमारूपेण देवता न स्थाप्याः । एतच्च, 'शिवस्याग्रे शिवं कुर्यात्' इति वक्ष्यमाणविधेरपवादकम्, लिङ्गाग्रे शिवप्रतिमामपि न कुर्यादित्यर्थः । एवञ्च शिवस्याग्रे शिवं कुर्यादित्यस्यायमर्थः—शिवस्य लिङ्गस्याग्रे शिवं शिव- लिङ्गम्, शिवस्य प्रतिमाया अग्रे च शिवप्रतिमां कुर्यादिति । प्रभानष्टेति । लिङ्गाग्रे अर्चारूपेण देवताः कृताश्चेत् प्रभानष्टा नष्टप्रभा भवन्ति । अत्र दृष्टान्त- माह—नभोग इति । यथा दिवाकरे उदिते नभोगा नभःस्थास्तारा नष्टप्रभा भवन्ति तद्वदित्यर्थः । २०-२१। पूर्वं 'ब्रह्माणं ब्रह्मणोऽग्रतः' इति 'विष्णौ विष्णुं जिने जैनम्' इत्युक्तम्, इदानीं तदपवादमाह—ये यस्यापीति ब्रह्मविष्णोरिति च । यस्य देवस्य ये हितावहा हितकारका भवन्ति तेऽपि तदग्रतः स्थाप्या इत्यर्थः । ब्रह्मेत्यादि । एकनाभिः सनाभिः सपिण्डस्तुल्यो वा, तादृशे जिने सम्मुखवर्तिनीत्यर्थः, दोषो न विद्यते, ब्रह्मणो विष्णोश्चाग्रे स्थापितो जिनो दोषाय न भवतीत्यर्थः । एवञ्च जिनस्या- प्यग्रे ब्रह्मणि विष्णौ वा स्थापिते दोषो न भवतीति लभ्यते न्यायसाम्यात् ।