भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 183, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 183

६६ देवतामूर्तिप्रकरणम् पद्मखड्गं खेटकञ्च गदा (तासु ? तेषु) प्रदक्षिणे । विलोमैः पद्मग(मोक्ता ? दयोः) जयो विजयदक्षि(णैः ? णे) ॥ तर्जनी बाणचापञ्च गदा (तासु ? तेषु) प्रदक्षि(णाम् ? णा) । गदाऽपि सव्यतः कुर्याद् धाता तस्माद् विधातृकः ॥ ११४ ॥ तर्जनीपद्मशङ्खञ्च गदा (तासु ? तेषु) प्रदक्षि(णं ? णा । सव्यापसव्ययोगेन सुभद्रो भद्र एव च ॥ ११५ ॥ मूर्त्तेः प्रमाणगणनां गरुडध्वजस्य ब्रह्मादयोऽमरगणा न हि ते समर्थाः । विश्वस्य पालनविधौ बहुधाप्रकारं रूपाणि यस्य विचरन्ति स पातु विष्णुः ॥ ११६ ॥ इति विष्णुप्रतीहाराः । इति क्षेत्रात्मजसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्तिप्रकरणे विष्णुशालग्रामशिलापरीक्षादिभेदाधिकारो नाम पञ्चमोऽध्यायः ॥ ५ ॥ तथात्वाच्चण्डो वा दक्षिणे प्रचण्डो वेति भ्रमः शिष्याणां मा भूदित्यसन्दिग्धार्थमुत्तरार्द्धमिति ज्ञातव्यम् । ११३ । विलोमैः पद्मगदयोरिति ; जयस्य वामोर्ध्वादिहस्तेषु क्रमात् पद्मं खड्गः खेटकं गदा चेत्यायुधानीति पूर्वार्धस्यार्थः । ततश्चैवामायुधानां पद्मगदयोर्वैलोम्येन विजयस्याऽऽयुधं भवेत् इत्युत्तरार्धस्यार्थः, वैलोम्यञ्च पूर्वं गदायाः पश्चाच्च पद्मस्य सन्निवेशादिति ज्ञेयम् । एवञ्च 'विलोमैः पद्मगदोर्विजयो जयदक्षिणे' इत्येवोचितः पाठः । ११४-११५ । अनयोरपि गदाया एव सव्यापसव्ययोगेन व्यवस्थेति द्रष्टव्यम् ।