रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 199, कुल 335 में से
संदर्भ में पढ़ें११२ देवतामूर्तिप्रकरणम् [ लिङ्गविस्तारः ] मृद्दारुलोहशै(लं वा?लानां) दैर्घ्ये भक्ते (दिनांशके?जिनांशकैः) । कुर्यात् षट्सार्धसप्तांशनवांशे विस्त(र?रं) क्रमात् ॥८१॥ (विषकं?विष्कम्भं) नव(नागं?भागं) तु सार्द्धमष्ट पितामहः । नारायणोऽष्टभिर्जे(यो?यः) सप्तसार्धं महेश्वरः ॥८२॥ ८१-८२। इदानीं लिङ्गस्य विस्तारं ब्रह्मादिभागविभागञ्च युग्मकेनाऽऽह—मृद्दार्विति । मृदादिलिङ्गानां दैर्घ्यं जिनांशकेश्चतुर्विंशत्येत्यर्थः, भक्ते षट्सार्धादिना विस्तरं कुर्यादित्यर्थः । यद्वा विष्कम्भनवभागं गर्भगृहविष्कम्भस्य नवमांशमितं विस्तरं कुर्यादित्यर्थः । अत्रोद्दिष्टानां मृदादीनां चतुर्णां षट्सार्धंत्यादिभिश्चतुर्भिरनुद्देशाद् यथासंख्येनान्वयो बोध्यः । विषमफलमपि तुल्यप्रकारं विभागवचनं शिल्परत्ने— आयामे दलिते दिवाकरयुजाऽभीष्टेऽष्टभिर्विस्तृतिः
पञ्चांशैरपि गर्भगृहनवमांशेनापि सा स्मर्यते ॥ ( उ० अ० २, श्लो० ६७ ) । ब्रह्मादिभागमाह—सार्द्धमष्टेति । अत्रापि जिनांशकैर्भक्ते इत्येव । सप्तसार्द्धमिति सार्द्ध- सप्तेत्यर्थः । अत्रापि फलविसंवाद्यपि संवादि प्रमाणं तत्रैव— लिङ्गं सर्वसमं समोन्मितिर्विभक्तांशत्रयं तत् पुनः स्वायत्या सम-नाहकं यदि समांशं वाथ वृद्धूत्तरम् । भक्ते भानुयुजोच्छ्रयेऽद्रि(७)वश्व(८)नन्दां(९)शैस्तु मूलादिषू- पेतं दिग्दलिते त्रिलोकयुगसंख्यातैस्तथेशाधिकम् ॥ ( शिल्प० उ० अ० २ श्लो० ६६ ) अस्यायमर्थः—लिङ्गस्य उच्छ्राये भानुयुजा रविद्वयेन चतुर्विंशत्येत्यर्थः, भक्ते क्रमेण अद्रिवस्व- नन्दांशैः सप्ताष्टनवभिरंशैर्मूलादिषु मूलमध्योर्ध्वभागेषु उपेतं पूर्वार्धविशेषणविशिष्टं लिङ्गम् ईशाधिकं शिवभागाधिकं भवेदित्यर्थः । पक्षान्तरमाह—दिग्दलिते इति । दिशा दशभिर्दलिते विभाजिते उच्छ्राये इत्येव, त्रिलोकयुगसंख्यातैः यथाक्रमं त्रिभिखिभिश्चतुर्भिरंशैर्मूलादिषु उपेतम् ईशाधिकञ्च सत् लिङ्गं तथा पूर्वोक्तवदेव भवेदित्यर्थः ।