रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 232, कुल 335 में से
संदर्भ में पढ़ेंअष्टमोऽध्यायः १४५ अक्षसू( तोभय?त्राभये) पद्मं तस्योर्द्ध्वे तु कमण्डलुम् । गौर्या( या?श्च ) मूर्त्तिरित्युक्ता कर्त्तव्या शिवशासिनी ॥ ५ ॥ [ इति गौरी ] अक्षसूत्रं च वीणे द्वे कमण्डलु ( : ) करेषु च । ललिता च तदा नाम सिद्ध( चामर ? चारण )सेविता ॥ ६ ॥ [ इति ललिता ] गोधासनाक्षसूत्रा च ( म ? अ )भयं वरदं करम् । श्रिया मूर्त्तिस्तदा नाम (ग्रहे?गृहे) पूज्या (श्रियोपमा?श्रिये सदा) ॥ [ इति श्रिया ] अक्षसूत्रं कमण्डलुं हृदये च पुटाञ्जलि ( : ? ) । पञ्चा (ग्रवश्च?ग्नयश्च ) कुण्डेषु कृष्णा नाम सुशोभना ॥ ८॥ [ इति कृष्णा ] हिमवन्ती शैलराजी ( शब्दवस्यात् परीसुता ? ) । (पद्मदर्पणोभवा ?) तु वीवाहे तु माहेश्वरी ॥ ६ ॥ [ इति हिमवन्ती ] कमण्डल्वक्षवज्राङ्कुशं गजासनसंस्थिता । (अ?सा)प्रतीतोद्भव(वा ? वद्)रूपा रम्भा च सर्वकामदा ॥१०॥ [ इति रम्भा ] ६। ललिता रूपमण्डने नास्ति । 'सिद्धचामरसेविते'त्यस्य 'सिद्धामरनिषेविते'त्यर्थे तात्पर्यं वा कृतशुद्धौ पाठे तात्पर्यं वेति चिन्तनीयम् । ८। पञ्चाग्नयश्च कुण्डेष्विति उभयतः पार्श्वयोरग्निकुण्डपञ्चकान्वितेत्यर्थः । अत्र 'पक्ष- द्वयेऽग्निकुण्डङ्गे'ति पार्वतीवदेव पाठो भवेन्न वेति चिन्तनीयम् । इयमपि रूपमण्डने नास्ति । ९। हिमवन्त्या लक्षणं पाठविकाराद् दुरुन्नेयम् । इयमपि रूपमण्डने नास्ति । १०। सा रम्भा प्रतीतोद्भववद्रूपा प्रतीतँ ख्यातम् उद्भववद् रूपं यस्याः तादृशी, यस्या रूपं प्रतिक्षणमेव नवनवीभूतं सत् प्रख्यायते इत्यर्थः । सोपसर्गेण भवतिना वर्त्तमानकाल- वाचिना शत्रा च रूपस्य प्रतिक्षणोत्पद्यमानत्वं लभ्यते । रूपमण्डने—