रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
DevanagariHindipublished335 पृष्ठ
पृष्ठ 265, कुल 335 में से
संदर्भ में पढ़ेंपृष्ठ 265
( १७८ )
- १३। (३-४) ‘वामे अक्षसूत्रञ्च’ इत्यत्र ‘वामेऽक्षसूत्रञ्चैव’। १४। (२) ‘-विभूषितम्’ इत्यत्र ‘-विभूषणम्’। १५। (४) ‘नागेन्द्रासनभूषितम्’ इत्यत्र ‘नागेन्द्रोरुविभूषितम्’। १८। (४) ‘वरदाभयपाणिकम्’ इत्यत्र ‘वरदाभयपाणिनम्’। १९। एकोनविंशः श्लोको नास्ति। २०। (२) ‘-हस्तं त्रिशूलिनम्’ इत्यत्र ‘-हस्ते त्रिशूलिनम्’। २१। (४) ‘चित्रैश्वर्यसमन्वितम्’ इत्यत्र ‘चित्रैश्वर्यफलप्रदम्’। २२। (३) ‘खड्गचापशिर:-’ इत्यत्र ‘खड्गचापशरः’। २५। (३) ‘पञ्चवक्त्रूभयं’ इत्यत्र ‘पञ्चास्यमभयं’। २६। अस्य परार्धे— ‘इच्छाज्ञा(नं ? न )कलायुक्तत्रिनेत्रं ( व ? वि )ज्ञानार्णवम्’ इति पाठः। २७। (४) ‘कर्णे वै तालपत्रकम्’ इत्यत्र ‘कर्णयोस्ताडपत्रकम्’। २८। (४) ‘स्वदक्षिणे’ इत्यत्र ‘च दक्षिणे’। २९। (१) ‘अर्धे तस्य त्रयो रूपः’ इत्यत्र ‘अर्धस्तस्य स्त्रियो रूपं’। ३०। (४) ‘गणेशं व्याप्य’ इत्यत्र ‘(मनेश चाथ ? गणेशश्चाथ)’। ३१। एकत्रिंशश्लोकात् परम्— † ‘अंलिङ्गितवामहस्तं नागेह द्वितीये कर। हरस्कन्धनुमाहस्तं दर्पणं द्वितये कर ॥’ इत्यधिकम्। ३३। (२) ‘कृष्णार्थेनस्तु’ इत्यत्र ‘कृष्णाध्र्देन तु’। ३५। अस्मात् श्लोकात् परम् ‘इति गरुडध्वजः’ इत्यधिकम्। ४४। (३) ‘ऋद्वामुखगतः’ इत्यत्र ‘रज्यागतमुखः’। ४६। पुष्पिकायां ‘हरिहरपितामहः’ इत्यत्र ‘हरांहीरराय-पितामहः’ इति विशेषः। ४७-४८। चन्द्राङ्कपितामहलक्षणात्मकं श्लोकद्वयं नास्ति। ४९। अस्य श्लोकस्य परार्धं परस्य च पूर्वार्धं नास्ति। ५३। (४) ‘वामार्धादि-’ इत्यत्र ‘वामोर्ध्वादि-’।
- अत्रेदं द्रष्टव्यम्—छन्दोभङ्गभयान्मूले ‘वामे अक्षसूत्रञ्चे’त्यकृतसन्धिः पाठ एव पूर्वमनन्य- गत्या सन्निवेशित आसीत्, पाठान्तरं तु छन्दः पालयदेवाऽऽत्मानं सुसंहितमकरोत्। † ‘आलिङ्गितो वामहस्ते नागेन्द्रो द्वितीये करे। हरस्कन्ध उमाहस्तो दर्पणं द्वितीये करे ॥’ इति स्यात्।