रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
DevanagariHindipublished335 पृष्ठ
पृष्ठ 271, कुल 335 में से
संदर्भ में पढ़ेंपृष्ठ 271
( १८४ )
- ४०। चत्वारिंशश्लोकात् परम्— प्रचण्डा श्यामवर्णा स्यादश्वारूढा चतुर्भुजा । वरदं च तथा शक्तिर्गदाम्बुजमनुक्रमात् ॥ इत्याधिकम् । † ४१। (२) 'शिपीस्थः' इत्यत्र 'शिखिस्था' । ४४। अस्य श्लोकस्योत्तरार्धे— बीजपूरगदा चाभयाऽक्षमालाऽब्जनाकुला' इति पाठः । ४६। (३) 'वाराहवदनो' इत्यत्र 'वराहवदनो' । ४६। (२) '-त्रिशूलने' इत्यत्र '-त्रिशूलकै(ः) । (३) 'पद्ममुषांधिका' इत्यत्र 'पद्म' मुषण्डिका' । ५०। (२) 'शेषवाहनः' इत्यत्र 'शङ्खवाहनः' । ५२। (२) '-पद्मवर्णासनस्थिता' इत्यत्र '-वर्णा पद्मासनस्थिता' । ५३। (१) 'सुतः कुपोरोह' इत्यत्र 'सितकुबेरो(च ? ऽथ )' । ५४। अस्य श्लोकस्य परार्धे— 'दावाशक्तिपाशधनुस्तथा पद्मं च नकुलम् । चेति दक्षिणाधकरक्रमात वरदं चाक्षसूत्रञ्च च शक्तिर्वा मातुलिङ्गकम् ।' इति क्रमहीनः पाठः । ५७। (१) (क) 'वरदन्ता' इत्यत्र 'नरदत्ता' । ५८। (१) 'भ्रुकुटिर्नेमिनाथस्य' इत्यत्र 'भ्रुकुटिर्नमनाथस्य' । ५९। अस्य श्लोकस्य स्थाने— 'अक्षवज्रपरशुनकुलं मथानस्तु गान्धारी यक्षिणी । वरखड्गखेटलुङ्गं हंसारूढास्तिता कायो ।।' इति पाठः । ६१। अस्य श्लोकस्य पूर्वार्धे— सिंहारूढाऽम्बि(ककार्य ? का कार्या) डम(रुं) नागपाशक्रम्' इति पाठः । (४) 'तथा हस्तेषु' इत्यत्र 'तस्य हस्तेषु' ।
- एतदंशमुद्रणावसर एवास्माभिरिदं 'रूपावतार'पुस्तकमुपलब्धम् । परं तदानीमपि न ज्ञातं यदिदं पुस्तकं नाममात्रभिन्नं देवतामूर्तिप्रकरणमेवेति अधिकोऽयं श्लोकः 'इति रूपावतारे' इत्युल्लेखेन अत्रत्यपादटीकायां सन्निवेशितो न मूले । † मूले १३८ तम-पृष्ठस्थस्यास्य श्लोकस्य संख्याङ्को भ्रमान्न मुद्रित इति द्रष्टव्यम् । (क) मूलग्रन्थे उद्देशश्लोके (१६ श्लो०) 'नरदत्ते'त्येव नामोपलभ्यत इत्यतो लक्षणनिर्णय- वेलायामपि मूले 'नरदत्ते'ति नाम्ना भाव्यम्, प्रमादादस्माभिरनुत्प्रेक्षितपाठान्तरं यथाप्राप्तमेव मुद्रितमिति सुधीभिः सोढव्यम् ।