भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 289, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 289

१० रूपमण्डने [ सूर्यः ] सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् । द्विभुजञ्चैकवक्त्रञ्च श्वेतपङ्कजधृतकरम् ॥ १८ ॥ वर्तुलं तेजसो बिम्बं (१)मध्यस्थं रक्तवाससम् । आदित्यस्य त्विदं रूपं कुर्यात् पापप्रणाशनम् ॥ १९ ॥ [ ग्रहाणां वर्णाः ] श्वेतः सोमः कुजो रक्तो बुधः पीतो गुरुस्तथा । शुक्रः श्वेतः शनी राहुः (२)कृष्णो धूम्रास्तु केतवः ॥ २० ॥ पद्महस्तो भवेत् सोमः कुजो दण्डकमण्डलुः । अर्धकायः स्थितो राहुः केतुः करपुटाकृतिः ॥ २१ ॥ [ ग्रहाणां वाहनानि ] सप्ताश्वरथ आदित्यश्चन्द्रो दशहयः स्मृतः । मङ्गलो मेषमारूढो बुधः सर्पासनस्थितः ॥ २२ ॥ हंसारूढं गुरुं विद्याद् भेकारूढं च भार्गवम् । शनिं महिषमारूढं राहुं कुण्डस्य मध्यगम् ॥ २३ ॥ सर्पपुच्छाकृतिं केतुं शनिं (३)दृष्टा करालिनम् । [ ग्रहाणां भूषणानि ] (४)गृहाः किरीटिनः कार्या (५)रलकुण्डलशोभिताः ॥ २४ ॥ [ सूर्यायतनम् ] सूर्यस्याऽऽयतने स्थाप्या वह्णिकोणादितः क्रमात् । कुजो जीवस्तमः शुक्रः केतवो (६)यज्ञः शनिः शशी ॥ २५ ॥ (१) ‘पद्मस्थं’ इति स्यात् । (२) ‘कृष्णौ’ इति स्यात् । (३) ‘दंष्ट्रा-’ इति स्यात् । (४) ‘ग्रहाः’ इति स्यात् । (५) ‘रत्न-’ इति स्यात् । (६) अत्र ‘य’ इत्यक्षरमधिकं ‘ज्ञः’ इत्येव स्यात् ।