रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 303, कुल 335 में से
संदर्भ में पढ़ें२४ रूपमण्डने गदाखट्वाङ्गपालाणि कार्मुकं तर्जनीघटौ । परशुं पट्टिशं चेति (१)वामार्धादिकराष्टके ॥ २६ ॥ इति त्र्यम्बकः [१२] । इति द्वादश रुद्राः । उमामहेश्वरं वक्ष्ये उमया सह शङ्करः । (२)मातुलिङ्गं त्रिशूलञ्च धरते दक्षिणे करे ॥ २७ ॥ आलिङ्गितो वामहस्ते (३)नागेन्द्रं द्वितीये करे । हरस्कन्ध उमाहस्ते दर्पणो द्वितीये करे ॥ २८ ॥ अधस्ताद् वृषभं कुर्यात् कुमारञ्च गणेश्वरम् । भृङ्गिरीटं तथा(४)कुर्यान्निर्मंसिन्नृत्यसंस्थितम् ॥ २९ ॥ इति उमामहेश्वरः । कार्यो (५)हरिहरस्यापि दक्षिणार्धे शिवः सदा । हृषीकेशश्च वामार्धे श्वेतनीलाकृती क्रमात् ॥ ३० ॥ वरं त्रिशूलचक्राब्जधारिणो बाहुकाः क्रमात् । दक्षिणे वृषभः पार्श्वे वामे विहगराडिति ॥ ३१ ॥ इति हरिहरमूर्त्तिः । एकपीठसमारूढमेकदेहनिवासिनम् । षड्भुजञ्च चतुर्वक्त्रं सर्वलक्षणसंयुतम् ॥ ३२ ॥ अक्षमालां त्रिशूलञ्च गदां कुर्याच्च दक्षिणे । कमण्डलुञ्च खट्वाङ्गं चक्रं वामभुजे तथा ॥ ३३ ॥ इति हरपितामहः । उमाञ्च द्विभुजां (६)कुर्याल्लक्ष्मीर्नारायणाश्रिता । देवं शस्त्रैः स्वकीयैश्च गरुडोपरि संस्थितम् ॥ ३४ ॥ (१) 'वामोर्ध्वादि-' इति स्यात् । (२) 'मातुलुङ्गं' इति स्यात् । (३) 'नागेन्द्रो' इति स्यात् । (४) 'कुर्यान्निर्मांसं नृत्य-' इति स्यात् । (५) 'हरिहरश्चापि' इति स्यात् । (६) 'कुर्याल्लक्ष्मीं नारायणाश्रिताम्' इति स्यात् ।