रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 314, कुल 335 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ३५ धारयन्तं करै रम्यैः पञ्चवक्त्रं त्रिलोचनम् । हेरम्बं मूषकारूढं कुर्यात् सर्वार्थकामदम् ॥ १७ ॥ इति हेरम्बः । लम्बोदरं त्रिनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तञ्च (१)लसत्कर्णं सचामरम् ॥ १८ ॥ [ इति वक्त्रतुण्डः ] वामाङ्गे गजकर्णं तु सिद्धिं दद्याच्च दक्षिणे । पृष्ठकर्णे तथा द्वौ च धूमको बालचन्द्रमाः ॥ १९ ॥ उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्षराजश्च बुद्धिः पूर्वे सुसंस्थिता ॥ २० ॥ इति गणेशायतनम् । सर्वे च वामनाकाराः सौम्याश्च पुरुषाननाः । तर्जनीपरशुपद्ममविघ्नो दण्डहस्तकः ॥ २१ ॥ तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः । तर्जनीखड्गखेटञ्च दण्डहस्तः सुवक्त्रकः ॥ २२ ॥ तर्जनीदण्डापसव्ये दक्षिणे बलवान् भवेत् । तर्जनीबाणचापञ्च दण्डञ्च गजकर्णकः ॥ २३ ॥ तर्जनीदण्डापसव्ये गोकर्णः पश्चिमे स्थितः । (२)तर्जनीपद्माङ्कुशं दण्डहस्तः सुसौम्यकः ॥ २४ ॥ तर्जनीदण्डापसव्ये स चैव शुभदायकः । पक्षद्वारादिके सर्वे प्राच्यादिष्वष्ट संस्थिताः ॥ २५ ॥ इति गणेशप्रतिहाराः । कार्तिकेयं प्रवक्ष्यामि तरुणादित्यसन्निभम् । कमलोदरवर्णाभं कुमारं सुकुमारकम् ॥ २६ ॥ (१) ‘चलत्कर्णे’ इत्युचितः पाठो देवतामूर्त्तौ ( अ० ८, श्लो० २५) । (२) ‘तर्जनीपद्माङ्कुशं च’ इति देवतामूर्त्तौ ( अ० ८, श्लो० ३३) ।