रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 321, कुल 335 में से
संदर्भ में पढ़ेंषष्ठोऽध्यायः अथ जैनमूर्त्तिलक्षणाधिकारप्रारम्भः [ चतुर्विंशतिरर्हन्तः ] एतस्या(१)मिषसर्पिण्या ऋषभोऽ(२)जिनसम्भवः । अभिनन्दस्तु (३)सुमूत्तिस्ततः पद्मप्रभाभिधः ॥ १ ॥ सुपार्श्वश्चन्द्र(४)प्रभेव(५)स्तुविधिस्त्याथ शीतलः । (६)श्रियांशो वासपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ २ ॥ धर्मशान्ति(७)कुप्यरोममल्लिश्च मुनि(८)सुवृतः । (९)नेमि-नेमि-पार्श्व-वीरश्चतुर्विंशति अर्हताः (?) ॥ ३ ॥ [ जिनानां वर्णाः ] (१०)रक्तो च पद्म(११)प्रभु....भवासंपूज्यौ (१२) शुक्लं च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमि(१३) षुगुणेर्विलीनै (१४)श्रीमल्लिः पार्श्वे कनकत्विषोऽन्ये ॥ ४ ॥ [ यथाक्रमं जिनानां ध्वजाः ] वृषो गजोऽश्व(१५)जो मृगवक्त्रोंचोब्जः स्वस्तिकः शशी । मकरवत्सखङ्गीशमहिषः शूकरस्तथा ॥ ५ ॥ श्येनो वज्रं (१६)मृगछागो नन्द्यावर्त्तो घटोऽपि च । कूर्मो नीलोत्पलं शङ्खः (१७)फाणी सिंहोऽर्हतां ध्वजाः ॥ ६ ॥ (१) ‘-मवसर्पिण्याम्’ इति स्यात् । (२) ‘-जित-’ इति स्यात् । (३) ‘सुमति-’ इति स्यात् । (४) ‘-प्रभश्च’ इति स्यात् । (५) ‘सुविधिश्चाथ’ इति स्यात् । (६) ‘श्रेयांसो’ इति स्यात् । (७) ‘कुन्थरयो’ इति स्यात् । (८) ‘-सुव्रतः’ इति स्यात् । (९) ‘नमि-’ इति स्यात् । (१०) ‘रक्तौ’ इति स्यात् । (११) ‘-प्रभवासपूज्यौ’ इति स्यात् । (१२) ‘शुक्लौ’ इति स्यात् । (१३) ‘-मुनी च नीलौ’ इति स्यात् । (१४) ‘श्रीमल्लिपार्श्वौ’ इति स्यात् । (१५) ‘-श्वः प्लवगः क्रौञ्चोऽब्जः’ इति स्यात् । (१६) ‘मृगश्छागो’ इति साधु । (१७) ‘फणी’ इति स्यात् ।