भारतकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 91, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 91

४ देवतामूर्त्तिप्रकरणम् [ शिलाभेदेन कर्मभेदः ] लिङ्गानि प्रतिमा मिश्रं कुर्यात् पुंशिलया बुधः । युञ्ज्यात् स्त्रीशिलया सम्यक् पीठिकाशक्तिमूर्त्तयः ॥४॥ द्रुमभेदे करास्फाले तालस्तु हरितालके । वाद्यभाण्डे च कांस्यस्य ... ॥ इति विश्वदर्शनात् तालशब्देनैव कांस्यनिर्मितवाद्यविशेषलाभात् कांस्यपदं ( मयमते च कंसपदं ) व्यर्थम्, तथापि 'सम्भेदनान्यतरवैयर्थ्यमि'ति न्यायात् 'नयनाश्व' इत्यादिवद् विशेषप्रतिपत्त्यर्थं वा तदुपात्तमिति ज्ञेयम् । स्पष्टमाह काश्यपशिल्पे— “तालशब्दसमाकारा दीर्घा या सा शिला स्त्रियः” इति । (अ० ४९, ५६ श्लो०) निःस्वनेति । निर्नास्ति स्वनो यस्याः सा निःस्वना शब्दहीना । व्यक्तमाह—काश्यपीये— “अस्विन्न झर्झरी इ(रु)क्षा स्वरहीना नपुंसका” इति । (अ० ४९, ५६ श्लो०) मयमते त्वविकलोऽयं श्लोकः परिदृश्यते । एवं मिश्राभ्यामाकृतिस्वराभ्यां भेद उक्तः । केवलया आकृत्यापि स्त्रीपुंनपुंसकादिभेदमाह काश्यपः— चतुरस्रा च वस्वस्रा स्त्रीशिलेति प्रकीर्त्तिता ॥ आयतास्रा च वृत्ता च दशाष्टादशकोणका । पुंलिङ्गा सा शिला ख्याता सुवृत्ता सा नपुंसका ॥ इति । (अ० ४९, ५७-५८ श्लो०) शिलानां वृद्धाबालायुवत्यादिसंज्ञा, अन्ये च विशेषाः काश्यपशिल्पे (अ० ४९) मयमते (अ० ३३) आग्नेये (अ० ५३) च द्रष्टव्याः । ४ । लिङ्गं त्रिविधं निष्कलं सकलं मिश्रञ्चेति । तत्र निष्कलं लिङ्गाख्यम्, सकलं प्रतिमा, सा च प्रस्तावाच्छिवस्यैव । मिश्रञ्च तयोर्मिश्रणादुत्पन्नं मुखलिङ्गाख्यम् । तथा चोक्तं मयमते— निष्कलं सकलं मिश्रं लिङ्गञ्चेति त्रिधा मतम् । निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥ मुखलिङ्गं तयोर्मिश्रं लिङ्गार्चाकृतिसन्निभैः । बिम्बमूर्त्तिः शरीराभा विश्वमूर्त्तिस्वरूपकैः ॥