भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 127, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 127

१६४ साहित्यदर्पणे वाच्या । हासः पुनरुत्पद्यमानो व्यभिचार्येव । व्यभिचारिलक्षण- भावात् । तदुक्तम्— 'रसावस्थां परं भावः स्थायितां प्रतिपद्यते ।' इति । तत्तस्य स्थायिनः कस्मिन्नरसे संचारित्वमित्याह— शृङ्गारवीरयोर्हामो वीरे क्रोधस्तथा मतः ॥ १७२ ॥ शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः । इत्याद्यन्यन्मनुन्नेयं तथा भावितबुद्धिभिः ॥ १७३ ॥ अथ स्थायिभावः— अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः । आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति संमतः ॥ १७४ ॥ यदुक्तम्— 'व्यङ्ग्यवृत्त्या भावानामन्येषामनुगामकः । न तिरोधीयते स्थायी तैर्भूभौ युज्यते परम् ॥' इति । ... ॥ परमिति । अत्यधिकार्थे ॥ अक्षमा इति । 'भावा ... । कन्दो मूलम् ॥ व्यङ्ग्यवृत्त्या व्यङ्ग्यन्यायेन । अनुगामकः प्रका-