भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 132, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 132

तृतीयः परिच्छेदः । १७५ द्वयोः प्रणयमानः स्यात्प्रेमोदे सुमहत्यपि ॥ १९८ ॥ प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना । द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः । उदाहरणम् । तत्र नायकस्य यथा— ‘अलीअपसुत्तअणिमीलिअच्छ देसु सुहअ मज्झ ओआसं । गण्डपरिउम्बणापुलइअङ्ग ण पुणो चिराइस्सं ॥’ नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे । उभयोर्यथा— पणअकुविआणं दोह वि अलिअसुत्ताणं माणइल्लाणं । णिच्चलणिरुद्धणीसासदिण्णअण्णाणं को महो ॥’ अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किंतु संभोगसंचा- र्यल्पभावत्वम् । यथा— ‘भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते । प्रेम्णि । ननु प्रमोदे सति कोप एव न भवति, कथं तत्र मानलक्षणसंगतिरित्यत आह—प्रेम्ण इति । कुटिलगामित्वात् कुटिलनद्यकादिरतित्वात् । कारणमप- राधादि । कुटिलस्य विनापि कारणं तत्तद्भावनेन कोपो भवतीति भावः । यद्वा कुटिलगामित्वाद् दुर्वगमस्वभावत्वाद् ॥ अलिअ इति । ‘अलीकप्रसुप्ततरन्नि- मीलित देहि सुभग मह्यमवकाशम् । गण्डपरिचुम्बनपुलकिताङ्ग न पुनर्विगमि- ष्यामि ॥ इति संस्कृतम् । मम विलम्बे तव कोपो जात इति लक्ष्यते । पुनरेवं विलम्बं न करिष्यामीति भावः । अत्रानीप्सिते तदन्यस्य कौटिल्यम् ॥ पणअ- कुवि इति । ‘प्रणयकुपितयोर्द्वयोरप्यलीकसुप्तयोर्मानवतोः (द्वयोः) । निश्चलनि- रुद्धनिःश्वासदत्तकर्णयोः को मग्नो ॥’ इति संस्कृतम् । मग्नो मग्नसङ्कल्पः । प्रियवदननिरूपणानन्तरकृतावपरोधोऽनुनयः तदर्थनसहायः । तं विनिद्य प्रहृष्टत्वे चेत्यर्थः । अस्य प्रणयमानस्य । ईर्ष्या अनुकम्पा, तया एव कल्पित- श्चित्तेन संनिबद्धः ॥ भ्रूभङ्ग इति । मानोन्मेषी सुतीं प्रति सखिबचन एति- १. 'प्रमोदे' इति २. '०प्सु०' इत्यादि '०प्रसुप्त०' इत्यस्य स्थाने हरिवल्लभसम्मतः पाठः २ '०वत्तो०' इति स्रोत पु० मुद्रणप्रमादात्