साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 170, कुल 506 में से
संदर्भ में पढ़ेंअलंकारशब्दस्य पृथगुपादानादनलंकारं वस्तुमात्रं गृह्यते । तत्र स्वरूपशब्दशक्त्युद्भवो व्यङ्ग्यो यथा— पन्थिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । उण्णअ पओहरं पेक्खिऊण जइ वससि ता वससु ॥ अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति वस्तु व्यज्यते । अलंकाररूपो यथा—'दुर्गालङ्घितविग्रहः-' इत्यादौ (६२ पृ.) । अत्र प्राकरणिकस्योमानाममहादेवीवल्लभभानुदेवनामनृपतेर्वर्णने द्वि- इति । 'व्यङ्ग्यस्य' इति शेषः । अनलंकारमिति । अलंकारशब्दोऽत्र धर्म- परः । तेन न विद्यते अलंकारो यत्रेति बहुव्रीहिः । तत्पुरुषसमासे क्लीबत्वं न स्यात् । 'शेषतत्पुरुषद्वन्द्वावन्त्यस्थपदलिङ्गौ' इत्यनुशासनेन पुंस्त्वप्रसङ्गेः ॥ पन्थिअ इति । 'पथिक नात्र संस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे । उन्नतपयो- धरं प्रेक्ष्य यदि वससि तद्वस ॥' इति संस्कृतम् । निवासार्थिनं पथिकं प्रति सूर्य- त्या उक्तिरियम् । संस्तरं शयनीयकटं मनागल्पमपि नास्ति । प्रस्तर एव यं स्वपिषि इति दर्शयति—प्रस्तरस्थल इति । पयोधरं मेघम् तत्तदा निवा- सोपयुक्तं शयनीयकटादिकमत्र नास्त्येव । मेघप्रतिरुद्धगतिकतया यदि वससि तद्व- स्येत्यापाततः प्रतीयते । तस्य व्यङ्ग्यमाह—अत्रेति । सत्थरादीत्यादिना पत्थरत्थ- लपओहरशब्दयोर्ग्रहणम् । परदारगमननिषेधकमार्गार्थकं सत्थरपदं प्राङ्नास्तिष्टम् । विस्तरे स्त्रीजनं संभोगार्थं गुह्यावलोकनार्थकं प्रस्तरस्थलपदं वरकृतदिष्टम् । स्तनार्थक- मपि पयोधरपदमुभयोः स्विष्टम् । एषा शक्त्या नामार्थेन परस्परमपि शब्दगत्यु- द्भवे यथा—'शनिरशनिश्च तमुदीरयन्ति, तृप्यन्ति नरेन्द्र यस्मै त्वम् । यत्र प्रती- क्षि पुनः, स भानुराशेऽप्युदारथ ॥' शनिरैरितोऽशनिरैज्ञश्च तमुदीरयन्ति । अनु- तरोऽप्युन्नतदारः । तत्राशनिशब्दशक्त्या शनिरित्येके वर्धिते तदारा निरुद्धापि तद्- दृष्टेर्वर्ण्यमेकं कार्यं कुरुत इति वस्तु व्यज्यते । उत्कृष्टार्थे तु विरोधाभास एव । यद्वा मेऽनुदारोऽपि तद्दृष्ट्या उदारो भवतीत्यर्थः ॥ अलंकाररूप इति । 'गन्ध- १. अत्रेति । प्रस्तरेण कल्पेनाल्पमविनाभूतं गृह्येत यतोऽनल्पमेतस्य नाम्नेयदासनं शय्या न भवतीत्यर्थः । यदा संस्तर एव नास्त्यल्पं दिविषदपि नास्ति, किं पुनः शयनीयम् । मारितिपाशित्तिरैरपि प्रकृष्टसुरूपस्थलमुन्मुकुटमुदारं पयोधरं स्तनो विस्तीर्णपयोधरं मेघं च प्रेक्ष्य तृप्तोऽप्यभोक्तरी तदा आस्स्वेति । प्रस्तरमया इत्यनेन शय्यादिराहित्यमङ्गीकृत्यैव स्वयमेवै- तस्य शब्दगतिकत्वात् परितृप्त्याग्रगणन-संयमवतोपसर्प्यतेति व्यङ्ग्यार्थः ॥