भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 178, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 178

चतुर्थः परिच्छेदः । २३५ संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया । वेदखाग्निशराः(५३०४) शुद्धैरिषुबाणाग्निस सायकाः (५३५५) ॥१२॥ शदानुरोधेनैकपञ्चाशत्त्वमेव दर्शितम् । संकरेणेति । अलंकारपरिच्छेदे वक्ष्यमा- णरीत्या त्रिरूपेणेत्यर्थः । यथा—'अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितौ । संदि- ग्धत्वे च भवति संकरस्त्रिविधः पुनः ॥' इत्यलंकारसंकरस्य त्रैविध्यमुक्तं तदनुसारेण संकरत्रैविध्यं बोध्यम् । अत्र 'एकाश्रयस्थितौ' इत्यस्य एकव्यञ्जकानुप्रवेश इत्यर्थः । संदिग्धत्वे 'अयं ध्वनिः स ध्वनिवाँ' इति संशयेऽङ्गाङ्गिभावापन्नोऽनेकव्यञ्जकानु- प्रविष्टः । असंदिग्धो ध्वनिसमुदायः संसृष्टिः । अनेकधेति यदुक्तं तदेवाह— वेदेति । वेदाश्चत्वारः, खं शून्यम्, अग्नयस्त्रयः, शराः पञ्च । सजातीयानेक संख्याप्रस्तावे 'अङ्कानां वामतो गतिः' इत्यङ्कविदा नियमेन चतुरुत्तरशतत्रयाधिक- पञ्चसहस्राणीत्यर्थः । ननु कथमतेतदेकपञ्चाशतश्चतुर्गुणेन चतुरधिकशतद्वयमेव भव- नीति चेन्, न । यत प्रथमस्य सजातीयेनैकेन विजातीयैः पञ्चाशता च संसृष्टावेक- पञ्चाशत्त्वम् । एवं द्वितीयस्य सजातीयेनद्वेन विजातीयैरूनपञ्चाशता च संसृष्टौ पञ्चाशत्त्वम् । तृतीयस्य सजातीयेनैकेन विजातीयैरष्टचत्वारिंशता च संसृष्टावून- पञ्चाशत्त्वं भवति । चतुर्थस्य सजातीयेनैकेन विजातीयैः सप्तचत्वारिंशता च संसृष्टावष्टचत्वारिंशत्त्वम् । एवमन्येषानेकैकह्रासेन सप्तचत्वारिंशदादिकम् । चरमस्य सजातीयेनैकेन संसृष्टावेकविपर्ययत्वमेवेति मिलित्वा षड्विंशत्यधिकत्रयोद- शशतत्वं ध्वनिसंसृष्टेः । एवं क्रमेण अष्टनसत्युत्तरनवशताधिकत्रिसहस्रत्वं त्रिविध- ध्वनिसंकरस्य । मिलित्वा 'वेदखाग्नि-' इत्यादिसंख्याया उपपत्तिः । न चैकपञ्चा- शत्त्वहानिः, (३१) प्रबन्धागतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः, (३२) प्रबन्धागतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः, (३३) पद- गतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (३४) पद- गतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः, (३५) पदगतकविनि- बद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः, (३६) पदगतकविनिबद्धवक्तृ- प्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः, (३७) वाक्यगतकविनिबद्धवक्तृप्रौढोक्ति- सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (३८) वाक्यगतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थ- शक्तिमूलो वस्तुनालंकारध्वनिः, (३९) वाक्यगतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्ति- मूलोऽलंकारेणालंकारध्वनिः (४०) वाक्यगतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो- ऽलंकारेण वस्तुध्वनिः, (४१) प्रबन्धगतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः, (४२) प्रबन्धगतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकार- ध्वनिः, (४३) प्रबन्धगतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः, (४४) प्रबन्धगतकविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः, (४५) प्रबन्धागतार्सलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः, (४६) वाक्यगतार्सलक्ष्यक्रमव्यङ्ग्यो रसादि- ध्वनिः, (४७) पदगतार्सलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः, (४८) पदांशदेशगतार्सलक्ष्यक्रम- व्यङ्ग्यो रसादिध्वनिः, (४९) रचनागतार्सलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः, (५०) वर्णगतार्सलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः, (५१) वाच्यानपेक्ष्यपदसिद्धो वलीति ॥

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक) · पृष्ठ 178, कुल 506 में से · BharatKosha