भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 184, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 184

चतुर्थः परिच्छेदः । २३५ संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया । वेदखाग्निशराः (५३०४) शुद्धैरिषुबाणाग्निसहायकाः (५३५५) ॥१२॥ शाद्यानुरोधेनैकपञ्चाशत्त्वमेव दर्शितम् । संकरेणेति । अलंकारपरिच्छेदे वक्ष्यमा- णरीत्या त्रिरूपेणेत्यर्थः । यथा—'अङ्गाङ्गित्वेऽलंकृतीनां तद्वदेकाश्रयस्थितौ । संदि- ग्धत्वे च भवति संकरस्त्रिविधः पुनः ॥' इत्यलंकारसंकरस्य त्रैविध्यमुक्तं तदनुसारेण संकरत्रैविध्यं बोध्यम् । अत्र 'एकाश्रयस्थितौ' इत्यस्य एकव्यञ्जकानुप्रवेश इत्यर्थः । संदिग्धत्वे 'अयं ध्वनिः स ध्वनिर्वे' इति संशयेऽङ्गाङ्गिभावापन्नोऽनेकव्यञ्जकानु- प्रविष्टः । असंदिग्धो ध्वनिसमुदायः संसृष्टिः । अनेकधेति यदुक्तं तदेवाह— वेदेति । वेदाश्चत्वारः, खं शून्यम्, अग्नयस्त्रयः, शराः पञ्च । सजातीयानेक संख्याप्रस्तावे 'अङ्कानां वामतो गतिः' इत्यङ्कविदां नियमेन चतुरुत्तरशतत्रयाधिक- पञ्चसहस्राणीत्यर्थः । ननु कथमेतदेकपञ्चाशतश्चतुर्गुणेन चतुरधिकशतद्वयमेव भवती- तीति चेत्, न । यतः प्रथमस्य सजातीयेनैकेन विजातीयैः पञ्चाशता च संसृष्ट्यानेक- पञ्चाशत्त्वम् । एवं द्वितीयस्य सजातीयेनैकेन विजातीयैरेकपञ्चाशता च संसृष्ट्या पञ्चाशत्त्वम् । तृतीयस्य सजातीयेनैकेन विजातीयैः षट्चत्वारिंशता च संसृष्ट्या त्रून्- पञ्चाशत्त्वं भवति । चतुर्थस्य सजातीयेनैकेन विजातीयैः सप्तचत्वारिंशता च संसृष्ट्याष्टचत्वारिंशत्त्वम् । एवमन्येषामेकैकहानेन सप्तचत्वारिंशादिकम् । चरमस्य सजातीयेनैवेन संसृष्ट्यावैकविध्यमेवेति मिलित्वा षड्विंशत्यधिकत्रयोद- शशतत्वं ध्वनिसंसृष्टेः । एवं क्रमेण षट्पञ्चाशदुत्तरनवशताधिकत्रिसहस्रं त्रिविध- ध्वनिसंकरस्य । मिलित्वा 'वेदखाग्नि-' इत्यादिसंख्याता उपपत्तिः । ते चैवमुदा- हार्याणि, (३१) प्रच्छन्नतया प्रौढोक्तिसिद्धार्थनिष्ठेऽलङ्कारसंकरेऽलङ्कारध्वनिः, (३२) प्रच्छन्नतया निर्मिता प्रौढोक्तिः तान्निष्ठा निष्फले इत्यनेन वस्तुध्वनिः, (३३) पद- गतपदविकसितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठे वस्तुना वस्तुध्वनिः, (३४) पद- गतपदविकसितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठे वस्तुनालङ्कारध्वनिः, (३५) पदगतकवि- कल्पितप्रौढोक्तिसिद्धार्थनिष्ठेऽलङ्कारेण वस्तुध्वनिः, (३६) पदगतकविकल्पितवस्तु- प्रौढोक्तिसिद्धार्थनिष्ठेऽलङ्कारेण वस्तुध्वनिः, (३७) पदगतकविकल्पितप्रौढोक्ति- सिद्धार्थनिष्ठे वस्तुना वस्तुध्वनिः, (३८) पदगतकविकल्पितवस्तुप्रौढोक्ति- सिद्धार्थनिष्ठे वस्तुनालङ्कारध्वनिः, (३९) पदगतकविकल्पितवस्तुप्रौढोक्तिसिद्धार्थ- निष्ठेऽलङ्कारेण वस्तुध्वनिः, (४०) पदगतकविकल्पितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठे- ऽलङ्कारेण वस्तुध्वनिः, (४१) पदगतकविकल्पितप्रौढोक्तिसिद्धार्थनिष्ठे वस्तुना वस्तुध्वनिः, (४२) पदगतकविकल्पितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठे वस्तुनालङ्कार- ध्वनिः, (४३) पदगतकविकल्पितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठेऽलङ्कारेण वस्तुध्वनिः, (४४) पदगतकविकल्पितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठेऽलङ्कारेण वस्तुध्वनिः, (४५) पदगतकविकल्पितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठे वस्तुना वस्तुध्वनिः, (४६) पदगत- ०, (४७) पदगतकविकल्पितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठे..., ४८) पदगतकविकल्पित- ० वस्तुनालङ्कारध्वनिः, (४९) पदगतकविकल्पितवस्तुप्रौढोक्तिसिद्धार्थनिष्ठे..., (५०) प्रौढोक्तिसिद्धार्थनिष्ठेऽलङ्कारेण वस्तुध्वनिः, (५१) पदगतकविकल्पितवस्तुप्रौढोक्ति...