भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 216, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 216

षष्ठः परिच्छेदः । ३६१ यथा मम प्रभावत्याम्—‘वज्रनाभः— ( अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ ) प्रद्युम्नः—अरेरे असुरापसद, अलममुना बहुप्रलापेन । मम खलु अद्य प्रचण्डभुजदण्डसमर्पितेरु- कोदण्डनिर्गलितकाण्डसमूहपातैः । आस्ता समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥’ गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥ २६० ॥ यथा वेण्याम्—‘राजा— अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥’ अनन्तरम् ‘(प्रविश्य) कञ्चुकी—देव, भग्नं भग्नं—’ इत्यादि । अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सबन्धे सबद्धम् । व्याख्यानं स्वरसोक्तस्यान्यथावस्यन्दितं भवेत् । यथा छलितरामे—‘सीता—जाद, कालं क्खु उअज्झाएण गन्तव्वम्, तर्हि सो राजा विणएण पणयिदव्वो । लवः—अथ किमा- दाभ्या राजोपजीविभ्या भवितव्यम् । सीता—जाद, सो क्खु तुह्माणं पिदा । लवः—किमादयो रघुपतिः पिता । सीता—( साशङ्कम् । ) ना अप्पधा सक्कइम् । ण क्खु तुह्माणम्, सअलाए जेव पुहवीएत्ति ।’ पिशितेन दानवातिशयेनेति ॥ अस्य प्रद्युम्नस्य । वो देवानाम् ॥ गण्डमाह— प्रस्तुतसम्बन्धि प्रस्तुतार्थसंबद्धम् ॥ पर्याप्तं समर्थम् ॥ सम्बन्धे प्रस्तुते ॥ अवस्य- न्दितमाह—व्याख्यानमिति । स्वरसोक्तस्य ‘अवश्यम्’ इति शेषः ॥ जाद इति । ‘पुत्र, काल एव उपाध्यायेन गन्तव्यम्, तत्र स राजा विनयेन प्रणयि- तव्यः’ ( इति संस्कृतम् । ) ‘पुत्र, स खलु युष्माकं पिता ।’ इति संस्कृतम् । ‘ना अन्यथा शक्यम् । न खलु युष्माकम् । सकलस्य एव पृथिव्या इति ।’ इति संस्कृतम् । अत्र सीतया युष्मच्छब्दोक्तः श्रीराम इत्यभिप्रायेणेदं वचनम् । ‘वत्सर-’

  1. आख्यानमिति । प्रस्तुतार्थं ह—रहोनावुञ्च्य पवनदुर्गोऽनुषङ्ग प्रवृत्ते- इति मम तोरुन्तवाप्यन ।’ इति । साहि० ३१