साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 22, कुल 506 में से
संदर्भ में पढ़ेंचार-’ ( १।२।४५-५० ) इत्यादिना पञ्चाप्युपदिष्टाः । एतेन पूर्वं त्रय एव हेत्वाभासा आसंस्ततः, पश्चात् पञ्चत्वमुपनीता इति व्यक्तम् । अत्र ‘विरुद्धासिद्धसं- दिग्धमलिङ्गं काश्यपोऽब्रवीत्’ इति वैशेषिक-पदार्थधर्मसंग्रहकारः प्रशस्तपाद- चार्योऽपि संवादी । एवं वृत्तौ जयनारायण-तर्कपञ्चाननोऽपि । तदेतन्महामहो- पाध्याय-चन्द्रकान्ततर्काचार्य्य स्वभाष्यभूमिकायां स्पष्टमुक्तवान् । किञ्च, न्याय- सूत्रापेक्षया वैशेषिकसूत्राणां प्रणयनशैलीसारल्यमपि तत्प्राचीनतामवगमयतीति प्रत्यक्षं परीक्षकाणाम् । यद्यपि न्यायकोशभूमिकायां महामहोपाध्यायभीमा- चार्येण विपरीतमुच्यते तन्न हृदयारोहीति द्रष्टव्यम् । प्रमाणैः प्रमेयपरीक्षणं न्यायः, नीयते प्रमेयसिद्धिरनेनेति वा । एषोऽक्षपादा- परनामा महामुनिना गोतमेन न्यरूपि । दृष्टान्तद्वारपुरस्कारेण पदार्थतत्त्वज्ञान- न्निःश्रेयसात्यन्तिकी परमात्मचिन्ता । अत्र पञ्च अध्यायाः । प्रत्यध्यायमाह्निकद्व- यम् । सर्वसूत्राणि ५३९ । भगवतो गौतमस्य समये आयुर्वेद इव मन्त्रकाण्डोऽपि दृष्टप्रत्यय आसीत्, तत एव दृष्टान्तविधया द्वयोरप्युपादानं वेदप्रामाण्यादरे कृ- तम्—‘मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् २।१।६८’ इति। सारसा- न्त्रिकोपगता मन्त्रा वदन्ते। आगमश्च-‘आगतं शिववक्त्रेभ्यो गतं च गिरिजामुखे । मतं श्रीवासुदेवस्य तस्मादागममुच्यते ॥’ इति शब्दार्थचिन्तामणौ निरस्तम् । तत्रापि-तत्पुरुषा घोर-सद्योजात-वामदेवे-शानेशाने पूर्वदक्षिणदिनेऽन्तर्बहिर्- पाणि पद्य । तत्पुरुषादिसंप्रतिपादका मन्त्रास्तु तैत्तिरीये आरण्यके दशमप्रपा- ठके श्रूयन्ते ॥ सांख्यं योगश्चेति समानतन्त्रे । तत्र तत्त्वानां संख्यानं यत्र स तत्त्वज्ञानं कपिलापरनामा नारायणांशेन देवहूतिगर्भेण महर्षिणा कपिलेनोपदिष्टम् । तद्यथोक्तम्—‘पञ्चमे कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥’ इति भागवते ( १ । ३ । ३ ह. १० श्लो. ) । तच्चेह सांख्यं निष्णातेरित्यादितदवशिष्टभूता सांख्यप्रवचनी तु देवहूत्यादनन्तरे महर्षिणा कपिलेनोपदिष्टा । तद्यथोक्तम्—‘सप्तम्यामष्टमे चैव विविधे हरिर- नघम् । दत्त्वात्म सम्पदं तत्र धौम्य निभृतः । यदि सांख्यं द्वयः प्रादुर्वभूव ददा । इति स कपिलो नाम सांख्यप्रवर्तकः । इति भारते विनिर्णयानुसारेण ज्ञायते । तदस्य प्रवृत्तेः शत प्रकृते र्न प्रकाशास्ते बहुदिवसावतीर्णेन कालान्तरेण प्रकीर्णः । इदानीं सांख्यप्रवचनोक्तमेव एतेन तत्त्वमाहात्म्यं सांख्यशास्त्रमिति ज्ञेयं न तु वार्ष्णगण्योपदिष्टम् । तत्र षड- ध्यायीग्रन्थः, द्वितीये तृतीयेऽध्याये षष्टिस्तन्त्राख्या विषयाः कथिताः— “तं षष्टिविषयं शास्त्रम्” इति दिङ्नागेन स्मरणात् । तत्र पञ्चविंशतितत्त्वप्रतीति- घाटतः ‘ईश्वरनिषेधश्चैतत् ५ । ८० ’ इति सांख्यप्रवचनोक्तरीत्या पञ्चविं- शतितत्त्वे तु ईश्वरः सुतराम् । १. न्यायसू. २।१।६८ । २. तैत्ति० आ० १०।२७।१ । १० । ४० । ४