साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 226, कुल 506 में से
संदर्भ में पढ़ेंअत्र मत्ताशब्दः क्लीबार्थे निहतः । 'वर्ण्यते किं महासेनो विजेयो यस्य तारकः ॥' अत्र विजेयं इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः । 'पाणिः पल्लवपेलवः ॥' पेलवशव्दस्याद्याक्षरे अश्लीले । 'संग्रामे निहताः शूरा वचोवाणत्वमागताः ॥' अत्र वचःशब्दस्य गीःशब्दवाचकत्वे नेयार्थत्वम् । तथा तत्रैव वाण- वाने शरेति पाठे । अत्र पदद्वयमपि न परिवृत्तिसहम् । जलध्यादौ दाशेऽपि पदे परे' इति यदुक्तम्, तदुदाहरणमाह-तद्गच्छेति ॥ अश्लीले ति । व्रीडाव्यञ्जके ॥ जुगुप्साव्यञ्जकं यथा- 'पूयते' इति । अत्र पूयशब्द । अमङ्गलव्यञ्जकं यथा- 'अभिप्रेत' इति । अत्र प्रेतशब्दः ॥ वचोवाणत्वं गीर्वाणत्वम् । गीःशब्दवाचकत्वे इति । लक्षणया गीःशब्दप्रतिपादकत्वे इत्यर्थ । तथा नेयार्थत्वम् । तत्रैव गीर्वाणशब्द एव । परिवृत्तिसहं श्रुतश-
- अत्र धातुमतो भावो धातुमत्तेति पदैकदेशेन क्लीबार्थेन मत्ताशब्देन मतुपोऽर्थो नेहन्यते । अत्र 'पद्माप्सरोविभ्रममण्डनानां संपादयत्री शिखरेर्विभाति । वलाहकच्छेद- विभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ॥' इति तच्छेषम् ॥
- विजेय इति । 'अर्हे कृत्यतृचश्च' इति सूत्रेणार्हार्थे 'अचो यत्' इति सूत्रेण विहितः कृत्यसंज्ञो यत्प्रत्ययो भूतत्वरूपे क्तप्रत्ययार्थेऽवाचकः ॥ अत्र 'चापाचार्यस्त्रिपुर- विजयी कार्तिकेयो विजेयः शस्त्रन्यस्तः सदनमुदधिर्भूरियं हन्तकार । अस्यैवैतत् त्रिभुवनपतेः कृण्वतो रेणुकाकण्ठदाया दत्तरूपस्त्वय परशुना लूनने चन्द्रहासः ॥' इत्यपनीयम् ॥
- पेलवेति । 'पेल' इति वर्णद्वयं लाटभाषाया वृषणरूपस्याद्रव्यत्याचकत्वया व्रीडा- दायीति प्रकाशव्याख्याताराः ॥ अत्र 'अतिपेलवमतिपरिमितवर्णं लघुदन्तमुदाहरति भट । परमार्षतः सहृदयं हरति पुनः कालकूटघटिनमिव ॥' इति प्रकाशोदाहरणं शरणम् ॥
- जलध्यादाविति । तथा चोक्तममरासिंहेन-'उत्पादिषु पूर्वपदे सरोजमूर्धेषु चोत्तरपदेषु । वारिजनेषु चोभयपदेषु पर्यायाप्रवृत्तिः ॥ इति परिवृत्तिसहा ये दीक्षात्वे दीक्षिताः शब्दाः । परिवृत्त्यसहा ये तु निभ्रा गीर्वाणतुल्यास्ते ॥' द्योतत्विन्त्यो गीर्वाणदित्येतच्छब्दाः परिवृत्तिं न सहन्त इत्यर्थः ॥ अत्र वचोबाणेत्युदाहरणम् 'सिंह- च्छत्रेडस्य भूपालमौलिमाणिक्यनंशानोः । मुकुटैर्नं वचोबाणैश्चेतो दन्तं निनाय्यते ।' इत्येतदनुरूपम् । वचोबाण गीर्वाणः शब्दयोरभेदात् ॥