साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 228, कुल 506 में से
संदर्भ में पढ़ेंसप्तमः परिच्छेदः। ४२१ अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः । अर्थानौचित्यमन्यच्च दोषा रसगता मताः । रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च । क्रमेण यथा— 'तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत ॥' 'चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम् ॥' स्थायिभावस्य स्वशब्दवाच्यत्वं यथा— 'सजायत रतिस्तस्यास्त्वयि लोचनगोचरे ॥' व्यभिचारिणः स्वशब्दवाच्यत्वं यथा— 'जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने ॥' अत्र प्रथमे पादे 'आसीन्मुकुलिताक्षी सा' इति लज्जाया अनुभाव- मुखेन कथने युक्तः पाठः । 'मानं मा कुरु तन्वङ्गि ज्ञात्वा यौवनमस्थिरम् ॥' अत्र यौवनास्थैर्यंनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः । 'धवलयति शिशिररोचिषि भुवनतल लोकलोचनानन्दे । ईषत्स्मितकटाक्षा लॆरसुमुखी सा निरीक्ष्यतां तन्वी ॥' अत्र रतस्योद्दीपनालम्बनविभावावनुभावपर्यवसायिनौ स्थिताविति दुष्टकल्पना । दित्यर्थः रसस्यैव । प्रकृतीनां नायकौचितधर्माणाम् विपर्ययोऽन्यथावर्तनम् । इद- मेवानौचित्यम् । अन्यत्प्रकृतेर्निर्धर्त्यत्विम् ॥ कोऽप्यनिर्वचनीयप्रमदः ॥ व्यभिचारिणः सम्भवनेयोगत एव स्वशब्दवाच्यत्वं दोषः, रसव्यापृतार्थसम्पादने तु न दोषः । यथा लज्जामन्थरेति, भमन्वित्तमुखे च । स्वशब्दवाच्यत्वं रसादिप्रकर्षदोषप्रविपर्यस्तम् ॥ विरोधिकलापपरिग्रहमुदाहरति—मानमिति । शान्तस्यैव चेति । चशब्दो हेतौ । विभाव उद्दीपनविभावः । तत्परिग्रहो यौवनास्थैर्यतिवेदनपर्यन्तम् ॥ अनुभावस्य व्यञ्जकत्वमाह—धवलयतीति । विशि- ररोचिषि चन्द्रे चन्द्रिकयोद्भासमानतल इत्यर्थः । अत्रेति । आलम्बनं १. तामिति । 'तामुन्मदकटाक्षविभ्रमाभिरुद्भासितानन्दाम् । नेत्राभ्यामुपल- भ्यमानगोचरे वीक्ष्यास्माकं रसो निष्पन्नः ।' इति प्रकाशीकारसम्मतम् पूर्वार्द्धम् २. चन्द्रेति । 'निर्मेघमेकदेशेन्दुबिम्बाभिरुद्भासिते गगने शृङ्गारसङ्गिचित्तं वृत्तम् । पूर्वार्द्ध काव्यप्रकाशे विलोकनीयः शृङ्गारमपि सर्वतोऽवगाहितम्' इति प्रकाशीका- रस्याभिप्रायः ।