साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 24, कुल 506 में से
संदर्भ में पढ़ेंभूमिका। ५३ नैरंगुनि । नैयंगिनिमेशद् द्विधा त्रिधा भूरिशो भवति ॥ द्रव्यात्पृथग्भूतो भवति गुणो नियतनिन्द्रियग्राह्यः । तावत्तत्तात्पर्य्याऽव्यभिचारिभावादिभेषादय त्रेधा ॥ नित्यं क्रियानुमेया द्रव्यविभागेन भवति मातर्थ । साऽरम्भाद्वा द्वेधा सकर्मिकाऽकर्मिका चेति ॥ नियतिविशुणेष्वपि बहुषु द्रव्येषु विन्दमानेषु । एकाकारा बुद्धिर्भवति यत सा भवेज्जाति ॥” इत्येवं शब्दविभागः । एष एवालंकारिकाणामनिमो जातिगुण- क्रियाद्रव्याणामुल्लेखकृत्येव निदर्शनतान् । शब्दोऽर्थो रसश्च मुख्यः । शब्दो वाच्यः, लाक्षणिकव्यंग्यसम्भा प्रागुपस्थानात्; अर्थो वाच्यः, लक्ष्यव्यंग्य- तात्पर्येभ्यः प्रागवगमनात्, मुख्यतुल्य इति व्यपदिश्यते । रसस्तु सर्ववादि- नामादरास्पदं मुख्य एव । रसादिशब्दस्य रसादिप्रत्यायने संकेताभावानाभिधा- व्यापारः प्रभवति । अत एवानिषेयेन व्यभिनामूतस्य प्रतीतिराहित्याल्लक्षणापि नाक्रमते । अभिधापूर्वरो हि लक्षणाव्यापार इति । अतएव च "साक्षात्सकेत- विषयो मुख्यः ॥ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः । मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः ॥” इति सूत्र्यते । अथ तात्पर्याख्या वृत्तिरपि संसर्गमात्रे विरतव्यापारा । इत्यगत्या अभिधादिपथातिशायिनी तुरीया व्यञ्जनावृत्तौ रसादिवोधने स्फोटायनगतानुसारिभिरलंकारिकैरङ्गीकृता । यद्यपि रसो न केनापि निह्नोतुं पार्यते तथापि तस्य बोधनव्यापारे वैमत्याद् विकल्पाः । व्यञ्जनावृत्तिप्रतिपाद्यो व्यङ्ग्यो हि वस्त्वलंकाररसादिलक्षणः, स तावत्प्रतीयमान एव (छा० २३८ पृ०) । अन्येनाप्यन्ववाचि—'मुख्यादव्यतिरिक्तः प्रतीयमानो व्यङ्गो ध्वनिः ।' ध्वनति, ध्वन्यते, ध्वननं चेति यथायोगमवधातव्यम् । अस्य व्यतिरेकविधा, यथा खलु ध्वनिकारेण अङ्कुरिता, आलोककारेण पल्लविता; लोचनकारेण पुष्पिता, तथैव प्रकाशकारेण फलिता, नान्येन केनापि कोऽपि विशेषोऽद्यावधि वस्तुतोऽत्र प्राकाशि ॥ अथ प्रतीयमानो व्यङ्ग्यो ध्वनिरित्यपि रसादिवेदनभङ्गिमात्रम्, न प्रत्येक- मर्थान्तरम् । यथा खलु व्यवहारभूमौ वाच्यस्तात्पर्यार्थो लक्ष्यो वेति । 'विभावानु- भावव्यभिचारिसंयोगाद् रसनिष्पत्तिः' (छा० ७२ पृ०) इति सर्ववादिसमता भारतीया रसनीवी । एतदुक्तं भवति—कारणादीनां विभावनाव्यापारवत्त्वाद् विभावादिपदाभिधाने दृष्टान्तमर्य्यादया विभावादिविभागलाभः । संयोगादिति सौत्र- पञ्चम्या विभावानुभावव्यभिचारिणः समूहलम्बनतया रसं प्रति हेतुता प्रतिपन्नाः । तत्र शब्दोपहितरूपाणां विभावादीनां व्यापाराद् उत्पाद्योत्पादक-गम्यगमक-पोष्य- पोषक-व्यङ्ग्यव्यञ्जकरूपा भावा वादिमिरादृताः । रसबोधने निरूपितदृशा अभि- धातात्पर्ये निरस्ते अपि पुनर्मामासकमतेन लोल्लटादिभिरुत्प्रेक्ष्यमाणोऽभिधाया दीर्घदीर्घतरो व्यापारो रसस्यानुकार्यगतत्वं च निरस्यते (सा. द. ८९ पृ० २५३ पृ०) “भट्टलोल्लटादयस्तु—रसस्य व्यङ्ग्यत्वमेवाङ्गीकुर्वन्ति” इति विवृत्तिग्रन्थस्तू- पेक्ष्यः (८० पृ०) एव संयोगादिति बुद्धौ रसस्य विभावादेश्च उत्त । रकालिकः सुदूरं निरस्तो मन्तव्यः । लक्षणापि निरस्तैव, यत्पुनस्तार्किकंमन्यैः र्थ रा महिमभट्टप्रभृतिभी रसोऽनुमाप्य इत्यास्थीयते, तदपि तस्यानुकर्तृगतत्वेन