साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 251, कुल 506 में से
संदर्भ में पढ़ें६०८ साहित्यदर्पणे प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे ॥' इह केचिदाहुः—'शशिप्रभृतीनां शोभनत्वं खल्याशोभनत्वमपि सदसद्योगः' इति । अन्ये तु—'शशिप्रभृतीनां स्वतःशोभनत्वं धूसरता- दीनां त्वशोभनत्वमिति सदसद्योगः ।' अत्र हि शशिप्रभृतिषु धूसरादे- रत्यन्तमनुचितत्वमिति विच्छित्तिविशेषस्यैव शोभनत्वे प्रक्रमादिति । इह च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः । समाध्यलंकारे त्वेक- कार्यं प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः । 'अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः ॥' अत्राद्येऽर्धे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः । उभयोर्यौगपद्ये यथा — 'कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥' र्गतत्वपर्यन्तानां ग्रहणम् । खलस्य तु स्वतोऽशोभनत्वं नृपाङ्गनगतत्वस्य शोभनत्व- मिति वैपरीत्येन सदसद्योगः । मनोदुःखं प्रति धूसरत्वादिविशिष्टचन्द्रादयः कार- णानि कारणीभूतानां विशेष्याणां विशेषणानां च यथासंभवं सतामसतां च योग एव सदसद्योग इति भावः । अन्येषां मतमुपपादयति—अत्र हीति । विच्छि- त्तिविशेषस्यैवेत्येवकारेण मनसील्यदेर्व्यावृत्तिः । नन्वेत्तन्निरर्थकमत्त आह—मन- सीति । तथा च वाक्यसमापकत्वेनैव तत्मार्थकमिति भावः । प्रथममतं दूष- यति—नृपाङ्गनगत इति । विशेषस्यैवेत्येवकारेण विशिष्टव्यवच्छेदः । तथा चात्र विशेष्यविशेषणयोर्योग एव वैचित्र्यावहो नतु विशिष्टानां योगः । क्रमभेद- रूपदोषावहत्वादिति भावः । समाध्यलंकारादस्य भेदमाह—इहेति । साहित्येन मिलितत्वेनावतारः । समग्रे समर्थे पर्याप्ते काकतालीयन्यायेन अप्रतिसंहृतत्वेना- पतनमुपस्थापनम् । यत्र कार्यविशेषं मिलितान्येव कारणानि जनयन्ति समुच्चयस्य विषयः । यत्र त्वेकस्मिन्कारणे फलसाधनायानुष्ठीयमाने दैवादुत्पन्नेन कारणान्त- रेण तत्फलस्य सुकरत्वं स समाधिरिति भावः ॥ गुणयौगपद्ये समुच्चयमाह—अ- रुणे चेति । नायिकां प्रति सख्या उक्तिरियम् । नयने शृने इति शेषः ॥ कलु- षमिति । रोषकषादिनमिल्यर्थः । सितपङ्केरुहस्य सोदरीसदृशी श्रीः शोभा यस्य तत् । अस्य वैयधिकरण्ये एव प्रयोगप्राचुर्यं विच्छित्तिविशेषजनकत्वं च । क्षिति- १. 'समन्वितं' इति मुद्रितपुस्तकेऽधिकम् ।