साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 299, कुल 506 में से
संदर्भ में पढ़ें७६ साहित्यदर्पणे टस्य काश्मीरकत्वमतितरा प्रसिद्धम् । इतश्च काश्मीरक आनन्दकविर्निदर्शना- रम्भे—‘....शिवागमप्रसिद्धषट्त्रिंशत्तत्त्वदीक्षाक्षपितमलपटलः प्रकटितसत्स्वरू- पश्चिदानन्दघनो राजानककुलतिलको मम्मटनामा दैशिकवरः....’ इति निर्दिशति । अभिनवगुप्तस्य समयस्त्वलेखात् ( १०७१ ) इति संवत् सिद्ध्यति । काव्यप्रकाश- संकेताख्यटीकासमयः ( १२१६ ) इति संवत् पूर्वमुक्तम् । ( १२१६-१०७१= १४५ इति समयान्तरम् । एतेन आचार्यमम्मटविषयेऽस्मदनुमानं साधूपपद्यत इति परीक्षणीयम् ॥ रुद्रटः । अयं काव्यालंकारप्रणेता महाकविर्धारापतेर्भोजदेवात्प्राचीनः । यतः— ‘किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वमनुमानत एव सत्य- मित्यं गिरो गिरिभुवः कुटिला जयन्ति ॥’ इति काव्यालंकारपद्यं सरस्वतीकण्ठाभरणे द्वितीयपरिच्छेदे उदाहृतम् । रुद्रटस्य नामान्तरं शतानन्दः, जनको वामकभट्टः, वेदः सामेति सर्वं तत्कृते वेदां- १ बन्धसृष्टिरत्नभूतस्य वक्ष्यमाणस्य चक्रबन्धस्य स्वरूपख्यातौ दर्पणोयवन्धप्रकार- न्यूनतापूर्तौ च खड्गादिवन्धश्लोकाः प्रदर्श्यन्ते । तत्र खड्गवन्धो यथा— मारारिशकरामेभमुखैरासाररंहसा । साराराद्धस्तवा नित्यं तदर्तिहरणक्षमा ॥ १ ॥ माता नतानां संघह. धियां वाधितसंभ्रमा । मान्याय सीमा रामाणां शं मे दिश्यादुमादिजा ॥ २ ॥ मुसलवन्धो यथा— मायाविनं महाहावा रसायातं लसद्भुजा । जातलीला यथासारवाचं महिष मावधी ॥ ३ ॥ चापवन्धो यथा— मानमीटा शरण्या मुत्सुदैवारवप्रदा च धीः । धीरा पवित्रा संत्रासाद्वासीष्टा मातरारम ॥ ४ ॥ वाणवन्धो यथा— माननापरुषं लोकदेवी सदस सन्नम । मनसा साद्रं गन्वा सर्वदा दास्यमङ्गताम् ॥ ५ ॥