साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 304, कुल 506 में से
संदर्भ में पढ़ेंसाहित्यदर्पणे विशेषतोऽवलोकनार्हा विषयाः। प्रथमे परिच्छेदे-काव्यफलनिरूपणं वस्तुतो दर्शनार्हम् ( ३-६ पृ.)। काव्यस्वरूपनिर्वचनावसरे सर्वाणि प्रमाणवचनानि दर्शनार्हाणि ( ६-२० पृ.) तत्र ‘तद्दोषौ-’ इत्यादिकव्यप्रकाशकारोक्तकाव्यस्वरूपस्य खण्डनग्रन्थगतटिप्पण्यो दर्शनार्हा ॥ द्वितीये परिच्छेदे-अभिधा संकेत( ३३ पृ०)पदगता टिप्पणी दर्शनार्हा । इतरग्रन्थविशिष्टं लक्षणाभेदाना निरूपणं वस्तुतो नैयायिकानामपि दर्शनार्हम् ( ३७-५६ पृ ) । यद्यप्यत्र कतिपये भेदास्तत्र तत्र महाकाव्येष्वनवकाशतया मन्दप्रयोजनास्तथापि लक्षणाभेदव्युत्पादनाय त्वावश्यका एव ॥ तृतीये परिच्छेदे- 'विभावेन-’ ( ७२ पृ. ) कारिकागता टिप्पणी निपुणं विभावनीया । उत्तमादिस्वरूपजिज्ञासुभिर्नेत्रृलक्षणगतानि प्रायः सर्वाण्येव विशेषणानि निरीक्षणीयानि ( ९७-१०० पृ ) । पुरा भारतवर्षेऽन्त पुरसहायाः किंविधाः कल्पिता इति तत्त्वजिज्ञासुभिः 'वामन-’ ( १०३ पृ ) इत्यार्या समूललक्ष्यलक्षणा- न्वेषणपूर्वकं समाकलनीया । तत्र किरात-म्लेच्छ-आभीरशब्दगता विशेषा अप्युद्धेया. । साधारणस्त्रीलक्षण ( ११७ पृ. ) निरूपणे कलापदार्थाः प्राचीनरहस्य- वेदिनिरवश्यमनुसंधेया । स्वदारगुप्त्यर्थमनुरागेङ्गितानि ( १३९ पृ. ) दर्शनार्हाणि । तत्र शिल्पिन्याद्या अनिसंधायिका भवन्तीति वात्स्यायनसंमतिर्द्रष्टव्या ( १४१ पृ.) । यक्षादीनां स्वरुपाणि ( १६९ पृ.) काव्यप्रकाशाद्यपेक्षया स्फीतानि दर्शनार्हाणि ॥ चतुर्थे परिच्छेदे-ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदप्रतिपादनं सुप्रतीतमेव । तत्र 'प्रधान-’ ( २४८ पृ ) पदनिष्टा टिप्पणी विलोकनीया ॥ पञ्चमे परिच्छेदे-व्यञ्नावृत्तेः स्थापनमितरग्रन्थापेक्षया स्फीतं प्राञ्जलं दर्शनार्हं चास्ते ॥ षष्ठे परिच्छेदे-सर्वोऽपि विषयप्रपञ्चो वस्तुतो दर्शनयोग्यः । किंबहुना, यथात्र नाटकादीना दशरूपकाणा नाटिकादीनामष्टादशोपरूपकाणां तद्गतविशेषजा- तानामन्येषा चोच्चावचानां विषयाणां विशदरूपेण निरूपणं निपुणतमं प्राप्यते, न तथा दशरूपकादिषु । सांप्रतमुपलभ्यमानेषु नाट्यशास्त्रपुस्तकेषु तु बहुत्र न्यूनता प्रतीयते । यदि किमपि नाट्यशास्त्रस्याविकलं पुस्तकं लभ्येत तर्हि दर्पणोल्लिखितवि- षयजातानां परीक्षा मौलिकदृशनकाव्यान्यवेषणाय विधातुं पार्येत । सति कुड्ये चित्र- मिति न्यायात् । श्रीमता हॉल्ड्साहिबेन दशरूपकेण सह तदुपकारिणो येऽध्यायाः ( १९-२०।३४ ) मुद्रापितास्तेऽपि नाविक्कलाः ।