साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 306, कुल 506 में से
संदर्भ में पढ़ेंसाहित्यदर्पणे विशेषतोऽवलोकनाही विषयाः । प्रथमे परिच्छेदे—काव्यफलानिरूपणं वस्तुतो दर्शनाहम् ( ३-६ पृ. ) । काव्यस्वरूपनिर्वचनवसरे सर्वाणि प्रमाणवचनानि दर्शनाहीणि ( ६-२० पृ. ) तत्र ‘तद्दोषौ-’ इत्यादिकाव्यप्रकाशकारोक्तकाव्यस्वरूपस्य खण्डनग्रन्थगताटिप्पण्यो दर्शनाहाः ॥ द्वितीये परिच्छेदे—अभिधा सङ्केत( ३३ पृ० )पदगता टिप्पणी दर्शनाहा । इतरग्रन्थद्विरिष्टं लक्षणाभेदाना निरूपणं वस्तुतो नैयायिकानामपि दर्शनाहम् ( ३७-५६ पृ ) । यद्यप्यत्र कतिपये भेदास्तत्र तत्र महाकाव्येष्वनवकाशतया मन्दप्रयोजनास्तथापि लक्षणाभेदव्युत्पादनाय त्तावश्यका एव ॥ तृतीये परिच्छेदे—'विभावेन-' ( ७२ पृ. ) इत्यारिकागता टिप्पणी निपुणं विभावनीया । उत्तमादिरूपपजितामुनिर्नैतॄलक्षणगतानि प्रायः सर्वाण्येव विशेषणानि निरीक्षणीयानि ( ९७-१०० पृ. ) । पुरा भारतवर्षेऽन्त.पुरसहायाः किंविधाः कल्पिता इति तत्त्वजिज्ञासुभि. ‘वामन-’ ( १०३ पृ. ) इत्यार्या समूललक्ष्यलक्षणा- न्वेषणपूर्वकं समाकलनीया । तत्र किरात-म्लेच्छ-आभीरशब्दगता विशेषा अप्युन्नेया । साधारणीलक्षण ( ११७ पृ. ) निरूपणे कलापदार्थाः प्राचीनरहस्य- वेदिनिरवश्यमनुसन्धेया. । स्वदारगुत्प्यर्थमनुरागेङ्गितानि ( १३९ पृ. ) दर्शनाहीणि । तत्र शिल्पिन्याद्या अनिष्टधायिका भवन्तीति वात्स्यायनसम्मतिर्दष्टव्या ( १४१ पृ. ) । शृङ्गारार्चेना स्वरूपाानि ( १६९ पृ. ) काव्यप्रकाशाद्यपेक्षया स्फीतानि दर्शनाहीणि ॥ चतुर्थे परिच्छेदे—ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदप्रतिपादनं सुप्रतीतमेव । तत्र ‘प्रधान-’ ( २४८ पृ ) पदनिष्ठा टिप्पणी विलोकनीया ॥ पञ्चमे परिच्छेदे—व्यञ्जनावृत्ते. स्थापनमितरग्रन्थापेक्षया स्फीतं प्राञ्जलं दर्शनाहं चास्ते ॥ षष्ठे परिच्छेदे—सर्वोऽपि विषयप्रपञ्चो वस्तुतो दर्शनयोग्यः । किंबहुना, अथात्र नाटकारीना दशरूपकाणा नाटिकादीनामष्टादशोपरूपकाणां तद्गतविशेपजा- तानामम्येषां चोचावचानां विषयाणां विशदरूपेण निरूपणं निपुणतमं प्राप्यते, न तथा दशरूपकादिषु । सांप्रतमुपलभ्यमानेषु नाट्यशास्त्रपुस्तकेषु तु बहुत्र न्यूनता प्रतीयते । यदि किमपि नाट्यशास्त्रस्याविकलं पुस्तकं लभ्येत तर्हि दर्पगोल्लिखितवि- षयजातानां परीक्षा मौलिकदृश्यकाव्यान्यवेषणाय विधातुं पार्येत । सति कुड्ये चित्र- मिति न्यायात् । श्रीमन्ता हॉल्ल्साहिबेन दशरूपकेण सह तदुपकारिणो येऽध्यायाः ( १९-२०।३४ ) मुद्रापितास्तेऽपि नावियकूलाः ।