साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 339, कुल 506 में से
संदर्भ में पढ़ें३२ साहित्यदर्पणे प्रथमं प्रतिपद्यते, अनन्तरं च 'गां बधान' 'अश्वमानय' इत्यादावावापो- द्वापाभ्यां गोशब्दस्य 'सास्नादिमानर्थः' आनयनपदस्य च 'आहरणमर्थः' इति सङ्केतमवधारयति । क्वचिच्च प्रसिद्धपदसमभिव्याहारात्, यथा- 'इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिवति' इत्यत्र । क्वचिदाप्तोप- न शब्दान्तरम् गवानयनगोचरं ज्ञानमनुमिनोति, तद्गोचरप्रवृत्तिं प्रति तद्गोचरज्ञानस्य हेतुत्वात्, तज्ज्ञानं शब्दं प्रति हेतुरीत्याज्ञायामुपस्थितत्वात् 'गामानय' इति शब्देन गवानयनहेतुतां कल्पयतीति भावः । अश्वमानयेत्यादाविति । अत्रापि ज्ञेयम् । आवापोद्वापाभ्यामिति । आवापोद्वापाभ्यामन्वयव्यतिरे- काभ्यां 'गां बधान' इत्यत्र गोपदसत्त्वे सास्नादिमत्पदार्थबोधः । आनयनपदव्यति- रेके तदर्थबोधाभावः । 'अश्वमानय' इत्यत्र गोपदव्यतिरेकेण सास्नादिमत्प- दार्थबोधाभावः । आनयनपदसत्त्वे आहरणपदार्थबोधः, इत्येवंरूपान्वयव्यतिरेका- भ्यामित्यर्थः सङ्केतमिति । सा चातिरिक्तैव न त्वस्माच्छब्दादयमर्थो बोद्धव्य इती- च्छात्मिका । ईश्वरस्याज्ञायाः पामरादीनामपि शाब्दबोधोदयादतिप्रसङ्गाच्च । अत एवा- धुनातनैः कल्पितसंज्ञापदानामपि सङ्केतः सङ्गच्छते । न चाशौचव्यपगमे पित्रा क्रियमाणैः संज्ञासंज्ञिसम्बन्धैश्चित्रादिपदानामपीश्वरसङ्केतितत्वमिति वाच्यम् । तत्र पितुरपि शक्तिग्राहकत्वान्नित्यादित्येतादृशादिपदानां सङ्केतासङ्गतिप्रसङ्गात् । त- त्त्वाग्रहात् पित्रादीनां सङ्केतः कल्प्यते 'अयं घटपदामिधेय' इत्यादिप्रती- तेर्न व्यभिचारादिति । क्वचिदिति । प्रसिद्धस्य गृहीतसङ्केतस्य पदस्य सम- भिव्याहारस्तद्विशिष्टाभिधायित्वेनान्वयः । प्रेक्षावद्भिः प्रायेण योग्यपदा- र्थानामेवान्वये प्रयुज्यत इत्यादिसम्बन्धेन प्रसिद्धपदार्थान्वययोग्यपदार्थे- ऽर्थबोधः क्रियत इत्यर्थः । एवञ्च यत्रायं योग्यतासम्बन्धोऽपि वक्तृत्वादर्थावि- शेषसद्भावादित्युक्तं नान्वयः न सान्निध्यात् । अनेकसम्बन्धादप्यनीत्यनुपदम् । एवम- ग्रेऽपि । प्रभिन्नेति । प्रकृष्टेत्यर्थः । 'इह कमले मधुकरो मधु पिबति' इति पदा- न्तरात् प्रसिद्धपदात्कमलेनेति मधुकरपदस्य भ्रमर एव सन्निकृष्टः । मक्षिकादौ तत्सत्त्वेऽपि वस्तुगत्यादृष्टविशेषात्सद्भावस्य सन्निकृष्टः । कमलसम्ब- न्धिन्यत्र मधु पिबतीति वाक्ये उक्तेन कमलपदसमभिव्याहारान्मधुकरपदस्य भ्रमरे सङ्केतो ज्ञायते । आप्तोपदेशाच्च प्रमाणवचनात् । प्रत्यक्षानुमानम् । व्या- प्यन्यायैर्युक्त्यापि प्रयोगस्य दृष्टत्वात् । तदुक्तम्—'शक्तिग्रहं व्याकरणोपमान- कोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।' इति । तत्र व्याकरणाद्यथा धातुप्रकृतिप्रत्ययादिभ्यः प्रत्ययात् । विशिष्य- मानादन्वितशब्देभ्यस्तत्तदर्थाः प्रतीयन्ते तद्वयाकरणात् । अर्थः सास्नादिमान् स च गोपदप्रकृतिप्रत्ययरूपः सिद्धः । एवं हि बोध्यम् । उपमा- नाद्यथा—'यथा गौस्तथा गवयः' इति वाक्ये प्रसिद्धगोसादृश्यज्ञानात् गवयपद- स्य सङ्केतो गृह्यते । एवं 'पिकः कोकिलः' इति कोशात् पिकपदस्य कोकिले