साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 413, कुल 506 में से
संदर्भ में पढ़ेंअत्र 'भ्रम धार्मिक-' इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्य- नतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्का न कार्या । यत्र खलु विधिनिषेधावुत्पत्स्यमानावॆव निषेधविध्योः पर्यवस्यतस्तत्रैव तद- वसरः । यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषेधयोः स्थिति- रवगम्येते तत्र ध्वनित्वमेव । तदुक्तम्— 'क्वचिद्वाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम् । पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु ॥' अत्राद्ये मुख्यार्थस्यार्थान्तरे सङ्क्रमणं प्रवेश , न तु तिरोभावः अत एवात्राजहत्स्वार्था लक्षणा । द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृत- त्वाज्जहत्स्वार्था । विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं मतः । असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ॥ ४ ॥ विवक्षितान्यपरवाच्योऽपि ध्वनिरेसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रम- व्यङ्ग्यश्चेति द्विविधः ।
गोदावरीकच्छकुञ्जवासिना दृप्तसिंहेन ॥' इति संस्कृतम् । आश्रमस्थाया कुलटाया गोदावरीकुञ्जरूपे संकेतस्थाने प्रसह्य पुष्पावचयेन कृतसंकेतभङ्गं श्वप्रेरितेऽङ्गुलिक्ष- द्रवेणाप्यनिवृत्तं धार्मिकं प्रति तस्या एव दिनान्तरे उक्तिरियम् । गोदा गोदावर्याम् । यो दिनान्तरे त्वामुद्वेजयति स श्वा गोदावरीतीरनिकुञ्जवासिना दृप्तसिंहेन मारित इत्यन्वयः । प्रकृते तात्पर्यविषयीभूतस्वैरविहारे । उत्पत्स्यमानौ उत्पत्स्यमाना- न्वयबोधौ । अन्वयबोधात्प्रागित्यर्थः । तदवसरो विपरीतलक्षणावसरः । एवञ्चा- चात्र लक्षणामूलध्वनेरवसरो नास्तीत्यर्थः । ध्वनित्वमभिधामूलध्वनित्वम् ॥ बाध्य- तया विपरीतार्थे पर्यवसनतया ख्यातिरन्वयबोधः । ख्यातस्यान्वयबोधवि- षयीभूतस्य बाधनं बाधोदयाद्विपरीतार्थपर्यवसानम् । लक्षणा लक्षणामूलो ध्वनिः । अभिधा अभिधामूलो ध्वनिः । अत्र लक्षणामूलध्वनौ । आद्येऽर्थान्तरसङ्क्रमितवा- च्ये । द्वितीयेऽत्यन्ततिरस्कृतवाच्ये जहत्स्वार्था लक्षणेत्यनुपज्यते ॥ प्रथममिति । पश्चादस्यापरे भेदा वक्तव्या इति भावः । यत्र ध्वनौ । लक्ष्यक्रम इति । व्याप्ति-
- असंलक्ष्येति । सम्यङ् न लक्षयितुं शक्यः क्रमः पौर्वापर्यं यस्य तादृशो व्यङ्ग्यो यस्मिन्त्सः । स्फुटे प्रकरणे झटिति प्रतीतेषु विभावातुभावव्यभिचारिषु सहृदयहृदयेषु
१. '-क्रमव्यङ्ग्य' ग. २. 'लक्ष्यव्यङ्ग्यक्रमः पर' ग. ३ ग पुस्तके तु 'द्विविधत-' इत्यादि 'द्विविध' इत्यन्तः पाठो नास्ति