भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 427, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 427

२१८ साहित्यदर्पणे अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलंकारेण भविष्यद्राक्षसश्रीविनाश- रूपं वस्तु व्यज्यते । ‘धम्मिले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः । एकोऽपि त्रिकलिङ्गभूमितिलक त्वत्कीर्तिराशियर्यौ नानामण्डनतां पुरंदरपुरीवामभ्रुवां विग्रहे ॥’ अत्र कविप्रौढोक्तिसिद्धेन रूपकालंकारेण भूमिष्ठोऽपि स्वर्गस्था- मुपकारं करोषीति विभावनालंकारो व्यज्यते । ‘शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । सुमुखि येन तवाधरपाटलं दंशति बिम्बफलं शुकशावकः ॥’ अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तु- ना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते । ‘सुभगे कोटिसंख्यत्वमुपेत्य मदनाशुगैः । वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम् ॥’ प्रकृतानामश्रुबिन्दूना स्थापनमपह्नुति । अत्र राक्षसस्त्रियोऽश्रुबिन्दूनामनीकत्वं कविप्रौढोक्तिमात्रसिद्धत्वम् ॥ कविप्रौढोक्तिसिद्धालंकारव्यङ्ग्यमलङ्कारमाह — धम्मिले इति । ‘धम्मिल्लः संयता कचा’ इत्यमरः । समुदयः समूह । श्रीखण्डलेपः चन्द- नप्रलेपः । विग्रहे देहे । अत्र कीर्तिगंगयोर्धावल्यरूपसादृश्यमप्रसिद्धमपि कविप्रौढोक्ति- मात्रसिद्धमिति तन्मूलकरूपकस्यापि तथात्वमिति भाव । स्वर्गस्थानामुपकारे स्वर्ग- स्थितिरेव कारणं ता विनापि भवतीति विभावना । उपकारश्च यज्ञादिद्वारेण ॥ कविनि- बद्धप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्तुमाह — शिखरिणीति । अधरवत्पाटलं रक्तं शुकशाव- कस्य तपश्चरणं प्रौढोक्तिमात्रसिद्धम् । यत्सादृश्येनोत्कृष्टं वस्तु पुण्यं विना न लभ्यते तस्य सुतरामेव पुण्यातिशयलभ्यत्वमिति भाव ॥ कविनिबद्धवस्तुव्यङ्ग्यमलङ्कार- माह — सुभगे इति । पञ्चता पञ्चसंख्यौपयोगित्वं मरणं च ॥ कविनिबद्धस्य १. त्रिकेति । तैलङ्गदेशभूषणम् ॥ दशनेति । दशनं आस्वाद्यते । अनवच्छिन्नप्रबन्धतया न त्वौदरिकत- येति तु रसज्ञोऽत्र तन्मातिभेदेन रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति द्वित्वेन अनौचित्यं तपस्व्येति सहृदयाः ॥ क. २ ‘कविप्रौढोक्तिमात्रसिद्धम्’ इति पुस्तकान्तरे नास्ति.