साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 43, कुल 506 में से
संदर्भ में पढ़ेंसाहित्यदर्पणे के प्रथमविमर्शे शब्दानौचित्यविचारः । अत्र "विधेयाविमर्शः, प्रक्रमभेदः, भेदः, पौनरुक्त्यं, वाच्यावचनम्," इति पञ्च दोषजातीः पुरस्कृत्य महाकवि- यो बहुधा परीक्षिताः । तृतीयविमर्शे ध्वन्युदाहरणानामनुमानेऽन्तर्भावदर्शनं ति । व्यक्तिविवेकस्य- 'अनुमानेऽन्तर्भावं सर्वस्यैव ध्वनेः प्रकाशयितुम् । व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ॥' इत्यारम्भः; 'अन्यैरनुल्लिखितपूर्वमिदं ब्रुवाणो नूनं स्मृतेर्विषयतां विदुषामुपैयाम् । हासैककारणगवेषणया नवार्थ- तत्त्वावमर्शपरितोषसमीहया वा ॥' इति समाप्तिश्च । मम्मटः । काव्यप्रकाशकर्ता राजानकसंज्ञाब्राह्मणकुलोत्पन्नो मम्मटाचार्यः कश्मीरेषु बभूव । अयमेव चिराय रूढान् गण्डलिकाप्रवाहेन विततान् दोषगुणरीत्यलंकारान् संक्षिप्य यथाशास्त्रं परिष्कृत्य च स्वोन्मीलिते काव्यप्रकाशे प्रथमं दर्शितवान्; अचिरात्प्रवृत्तान् ध्वनिविषयान् यथायथं संकलय्य परिसंख्याय च यथावसरं समासभाषाभ्यां न्यन्यन्धवान्; पाठ्यदृष्ट्या कारिकासदृशान् प्रमेयान् वृत्त्या मनाग् व्याहृतवान् । एवं यथा शब्दार्थपरिशुद्धये सूत्रवृत्त्युदाहरणैर्वैयाकरणसिद्धा न्तकौमुदी विभज्यते, तथैवेष काव्यप्रकाशः शब्दार्थगुम्फपरिष्कृतये । स एष परि- कराऽलंकारपर्यन्तो मम्मटेन तत उर्वरितः किञ्चिद् अल्लुटेन (अलकेन) कृत इत्येतट्टीकायां निदर्शनाख्यायामुक्तम्- 'कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः । प्रबन्धः पूरितः शेषो विधायाल्लटसूरिणा ॥' एतद्भूतं काव्यप्रकाशस्य 'इत्येष मार्गो विदुषा-' इत्यन्तिमश्लोकव्याख्यानतो- न्निश्चीयते । एतस्य टीकास्तत्कर्तारश्च- (१) संकेत: ... ... ... जैनमाणिक्यचन्द्राचार्यैः कृतः । (२) बालचित्तानुरञ्जनी ... सरस्वतीतार्थैः कृता । (३) दीपिका ... ... ... जयन्तभट्टैः कृता । (४) आदर्श (संकेतः) ... सोमेश्वरभट्टैः कृतः । (५) दर्पण ... ... ... विश्वनाथकविराजैः कृतः । (६) विस्तारिका ... ... परमानन्द-चक्रवर्ति-महाचार्यैः कृ (७) निदर्शनम् (सारसमुच्चयः) राजानकानन्दकविभिः कृतम् । (८) सरबोधिनी ... ... श्रीवन्मयारुठ्ठणमहाचार्यैः कृता