साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 440, कुल 506 में से
संदर्भ में पढ़ेंचतुर्थः परिच्छेदः। इतरस्य रसादेरङ्गं रसादिव्यङ्ग्यम् । यथा— 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ अत्र शृङ्गारः करुणस्याङ्गम् । 'मानोन्नतां प्रणयिनीमनुनेतुकाम- स्त्वत्सैन्यसागररवोद्भूतकर्णतापः । हा हा कथं नु भवतो रिपुराजधानी- प्रासादसंततिषु तिष्ठति कामिलोकः ॥' इत्यनेन तस्य गुणीभूतव्यङ्ग्यस्य रसाङ्गं रसव्यङ्ग्यम् । उदाहरति—अय- मिति । भूरिश्रवसः समरपतितं हस्तं विलोक्य तत्पत्न्या रोदनमिदम् । अयमी- दृगवस्थः स तत्कर्मणि मुहुरनुभूतः । तत्कर्माह—रसनेति । रसना मम क्षुद्रघण्टिकासमुत्कर्षयितुं मार्जनादिना उत्कृष्टीकर्तुमाकृष्टुं वा शीलमस्य सः । नीव्या वस्त्रग्रन्थस्य विस्रंसनो मोक्षणकरः । अत्रालम्बनविच्छेदेन रतेरसाध्यतया स्मर्यमाणाया तदङ्गानां शोकोद्दीपकात्मकत्वेनानुकूलतेति शृङ्गारस्य करुणाङ्गत्वम् । अत एव प्राकरणिकत्वेन प्रधानस्य करुणस्य व्यञ्जकं वाक्यार्थमपेक्ष्य तदानीमप्राप्त- रसभावस्य शृङ्गारस्य न्यूनत्वमचमत्कारित्वम् । ननु तदानीं शृङ्गारस्य रसत्वाप्राप्त्या कथमस्य रसाङ्गोदाहरणत्वं सङ्गच्छतामिति चेत्, न । तदानीं शृङ्गाररसस्य पूर्णरसलाभाभावेऽपि खण्डरसत्वस्य सत्त्वात् । तच्च दोषपरिच्छेदे निर्णयिष्यते । शृङ्गा- रस्य करुणविरुद्धत्वेऽपि स्मृतिविषयत्वेन गुणत्वमेव, न तु दोषत्वम् ॥ भावाङ्गं रसव्यङ्ग्यमुदाहरति—मानोन्नतामिति । राज्ञः स्तुतिरियम् । मानोन्नतामुन्नतमा-
- प्रासादेति । प्रासादपङ्क्तिषु ॥ १ न पुनरने तु 'इतरस्य-' इत्यादि '—मानोन्नतामेतां' इत्यन्तस्य ग्रन्थस्य स्थाने 'अनुचितारम्भ पर्यन्तस्य' इत्यादिग्रन्थान्तरे विविधवादानिधियार्थनिषेधम्दोषोऽयं व्यज्यते । उपशमस्तु मरुद्भङ्गे- ऽप्यत्रापि विधिकृपकर्तृकस्य निषेधस्यापि तात्पर्यम् । तथ्या पूर्ववार्तिकामूलत्वात्तस्य नामाप्यप्रवृ- त्तिरिति । उच्यते— मम धर्मिसत्ता' इत्यत्र सुरुषाणो वादित एव विश्रान्तिभावाद्य निषिधार्थं व्यञ्जयति । 'उपलम्भ-' इत्यत्र तु दृष्टार्थस्य शशिशृङ्गेन प्रकीर्ते विवक्षितार्थस्य विधातनिषेधतय्या व्यञ्जयन्तः । तथा चोक्तम्—'अविज्ञातानुया' 'यस्ति-' (इत्यादि) व्यञ्जितैश्वर्यः । यद्यप्यनेकसंयुक्तत्वे सति भेदोल्लेखेनैव विशिष्टप्रत्ययोत्पत्तिरस्त्येवेति तथापि तद्भेदान्ना तदा सातिशयस्य शान्तिस्तथा विविध्य प्रतिपादयन् । २ तु बाल्यावस्थायां ध्वन्यध्ययनमारब्धवद्भिरेव नैषा पद्धतीदानीन्तनैर्नवेक्षणी- येत्याहृत्य । पदपदान्तरीभानन्तरत्वेन नैषा परम्पराभ्युपेता । पदादावङ्गुष्ठप्रभृति प्रत्यय- प्रतिपादितैः सर्वनाम च । पुरुरवन्वयः पूर्वमित्यापत्तित नयादि कर्मभूताधिकरणं विशेषेणान्तिताश्चायम् । पदस्यैव निर्वन्धश्च सपक्षो दृश्यत तथा । शब्दादीनामङ्गत्वान्ना पदानां दुर्विनीतायैव तच्चोक्तम्— • 'तदापदधर्माश्चेन्न-' (इत्यादि) इति पाठो दृश्यते