भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 470, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 470

षष्ठः परिच्छेदः। ३६१ यथा मम प्रभावत्याम्—'वज्रनाभः— (अस्य वक्षः क्षणेनैव निर्मथ्य गदयानया । लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः ॥ ) प्रद्युम्नः—अरेरे असुरपसद, अलममुना बहुप्रलापेन । मम खलु अद्य प्रचण्डभुजदण्डसमर्पितोरु- कोदण्डनिर्गलितकाण्डसमूहपातैः । आस्ता समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया ॥' गण्डं प्रस्तुतसंबन्धि भिन्नार्थं सत्वरं वचः ॥ २६० ॥ यथा वेण्याम्—'राजा— अध्यासितुं तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥' अनन्तरम् '(प्रविश्य) कञ्चुकी—देव, भग्नं भग्नं—' इत्यादि । अत्र रथकेतनभङ्गार्थे वचनमूरुभङ्गार्थे सबन्धे संबद्धम् । व्याख्यानं स्वरसोक्तस्यान्यथात्वसन्दितं भवेत् । यथा छलितरामे—'सीता—जाद, कालं क्खु उअज्झाएण गन्तव्वम्, तर्हि सो राजा विणएण पणयिदव्वो । लवः—अथ किमा- वाभ्या राजोपजीविभ्या भवितव्यम् । सीता—जाद, सो क्खु तुह्माणं पिदा । लवः—किमादयो रघुपतिः पिता । सीता—( साशङ्कम् । ) मा अण्णधा संकद्वम् । ण क्खु तुह्माणम्, सअलाए जेव पुढवीएत्ति ।' धिष्येन वाच्यातिशयेनेतिः ॥ अस्य प्रद्युम्नस्य । वो देवानाम् ॥ गण्डमाह— प्रस्तुतसबन्धि प्रस्तुतार्थसंबद्धम् ॥ पर्याप्तं समर्थम् ॥ सबन्धे प्रकृते ॥ अन्य- न्दितमाह—व्याख्यानमिति । स्वरसोक्तस्य 'तवदस्य' इति शेषः ॥ जाद इति । 'पुत्र, काल एष उपाध्यायेन गन्तव्यम्, तत्र स राजा विनयेन प्रणयि- तव्यः ।' ( इति संस्कृतम् । ) 'पुत्र, स खलु युष्माकं पिता ।' इति संस्कृतम् । 'मा अन्यथा शङ्कध्वम् । न खलु युष्माकम् । सकलाया एव पृथिव्या इति ।' इति संस्कृतम् । अत्र सीतया पुत्रस्नेहान्तः श्रीरामे इत्यभिप्रायेणोक्तं वाक्यम् । 'वस्वर.'

  1. सन्धानितमिति । वस्तुतस्त्वर्थान्तरयोगानुगुण्यं स्वरसादुक्तिप्रत्युक्तिरूपं सङ्घटित- मिति मन् तोषन्तान्यदन ।' इति । साहि० ३१