साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 491, कुल 506 में से
संदर्भ में पढ़ेंयस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥’ अत्र ‘येन-’ इत्यादौ सभङ्गश्लेषः । ‘अन्धक-’इत्यादावभङ्गः । अ- नयोश्चैकत्र संभवात्सभङ्गाभङ्गात्मको ग्रन्थगौरवभयात्पृथङ्गोदाहृतः । अत्र केचिदाहुः—‘सभङ्गश्लेष एव शब्दश्लेषविषयः । यत्रोदात्तादि- स्वरभेदाद्भिन्नप्रयत्नोच्चार्यत्वेन भिन्नयोः शब्दयोर्जतुकाष्ठन्यायेन श्लेषः । अभङ्गस्त्वर्थश्लेष एव । यत्र स्वरभेदादभिन्नप्रयत्नोच्चार्यतया शब्दाभेदाद- र्थयोरेकवृन्तगतफलद्वयन्यायेन श्लेषः । यो हि यदाश्रितः स तदलंकार एव । अलंकारालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तिः’ इति । तदन्ये न क्षमन्ते । उमाधवश्च त्वा पायात् । माधवपक्षे—येन अभवेन जन्मरहितेन थनं शकटं ध्वस्तं पादेन परावर्तितम् । बलेरसुरराजस्य जेता । कायं पुरा अमृतपरि- वेषणावसरे स्त्रीकृतः स्त्रीत्वं प्रापितः । अमृतार्थं विवदमानानां देवासुराणाम- मृतपरिवेषणाय मायया नारायणेन मोहिनीरूपं धृतमिति पुराणवार्ता । यश्चोद्भू- तस्य उन्मत्तस्य अभङ्गस्य अघासुरस्य हन्ता । यद्वा कालियस्य पीडाकरः । आरखलयः अरिसम्बन्धि सैन्यं यातीत्यर्थः । यद्वा उद्धृतभुजंगहार बलं यस्य तेन गरुडेन यातीत्यर्थः । अगं गोवर्धनं कृष्णरूपेण, गां पृथ्वीं च कूर्मरूपेण योऽधारयत् । शशिनं मथ्नातीति शशिमद्राहुः तस्य शिरोहर इति स्तुत्यं नाम यस्य चामरा आहुः । अन्धकानां यादवानां क्षयकरो द्वारकाख्यनिवासनिर्माता । उमाधवपक्षे—येन ध्वस्तमनोभवेन विनाशितकामेन बलिजितो विष्णोः कायः पुरा स्त्रीकृतः । मोहिनीरूपदिदृक्षुणा शिवेन प्रेषितो विष्णुः पुनर्मोहिनीरूपं दधारेति पुराणवार्ता । यश्च उद्धृतौ उत्कर्षेण वर्तितौ भुजंगरूपी हारवलयौ येन सः । यश्च शिरसि गङ्गामधारयत् । यद्वा शरीरार्धेन गौरीम्, शिरसि गङ्गां चेत्यभिप्रायेण च- कारः । यस्य शिरः शशिमच्चन्द्रयुक्तं हर इति स्तुत्यं नाम चामरा आहुः । अन्ध- कस्य असुरविशेषस्य विनाशकरः ।॥ श्लेषस्तावच्छब्दालंकारोऽर्थालंकारश्च संभवति, तयोः परमतनिराकरणपूर्वकं भेदं निरूपयति-अत्रेति जतुकाष्ठेति । पृथगु- पलभ्यमानयोरपि जतुकाष्ठयोर्योगे यथैकत्वप्रतिभासस्तथेहापीत्यर्थः । लोकव-
- यत्रेति । समासभेदेनोदात्तादिस्वरभेदाद्भिन्नप्रयत्नोच्चारणयोग्ययोरपि शब्दयो- र्द्वेषभङ्गमयेन स्वरभेदानादरादेकप्रयत्नोच्चारणे जतुकाष्ठन्यायेन शब्दश्लेष इति भावः ॥
- यत्र स्वरेति । समानाभेदेनोदात्तादिभेदाभावादभिन्नप्रयत्नोच्चार्यत्वेन शब्दाभेदा- भावे केवलमर्थयोरेकवृन्तगतफलद्वयन्यायेन श्लिष्टत्वादर्थश्लेष इति भावः ॥
- पुराणवार्तेति । अस्त्रीकृत इति च्छेदः । त्रिपुरवधे विष्णुर्यस्य बाणो बभूवेति १. 'द्वेष' इ पुस्तके नास्ति. २. 'इह' घ. ३. 'मन्यन्ते' घ.