साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 79, कुल 506 में से
संदर्भ में पढ़ें‘त्रिवर्गसाधनं नाट्यम्’ इति च । विष्णुपुराणेऽपि— ‘काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च । शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः ॥’ इति । [१] [२] तेने हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते । एतेनाभिधेयं च प्रदर्शि- तम् । तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह—‘तददोषौ शब्दार्थौ कृतिज्ञप्त्यन्यतरजनक संस्कारविशेष ॥ त्रिवर्गो धर्मार्थकामा । नाट्यमभिनय प्रधानं नाटकादि ॥ काव्यालापा इति । रसव्यञ्जकाः शब्दार्था इत्यर्थ ॥ कारि- कास्थं ‘तेन–’ इत्यादि व्याख्यायते—तेनेत्यादि । एतेन ‘चतुर्वर्गफलप्राप्ति- इत्यादिश्लोकेन । अभिधेयं चेति । चकारेण प्रयोजनसम्बन्धयोर्लाभ । सम्बन्ध- श्चात्र प्रयोजनाभिधेययो कार्यकारणभावरूप ॥ कश्चिदिति । काव्यप्रकाशकृत कारिकाकार इत्यर्थः । तदिति । काव्यमित्यर्थ । शब्दार्थाविति । विनिगमन विरहेण उपस्थापकत्वसंबन्धेनार्थविशिष्ट शब्द । उपस्थाप्यत्वसंबन्धेन शब्दविशि- ष्टार्थः काव्यमित्यर्थ । अत्र शब्दार्थयोर्विशेषणविशेष्यभावे व्यञ्जकत्वाव्यञ्जकत्वाभ्या वैचित्र्यविशेषरूपालंकारप्रयोजकत्वाप्रयोजकत्वाभ्या प्रधानाप्रधानभावो नियामक न च यत्रोभयोर्व्यञ्जकत्व वैचित्र्यविशेषाधायकत्वं वा तत्र का गतिरिति वाच्यम् बाहुल्येन व्यञ्जकत्वेन चमत्कारातिशायाधायकत्वेन वा तत्र व्यवहारोपपत्ते । न तथापि यत्र व्यञ्जकयोर्वैचित्र्यविशेषप्रयोजकयोर्वा तुल्यत्व तत्र व्यवहारानुपपत्ति १. स्वरूपमिति । वस्तुनो मत्रस्येव काव्यस्य तद्विदा व्यवहारमन्तरेण किम निर्दिष्ट लक्ष्मा नास्ति । तत. सुन्दोपसुन्दन्यायेन सर्वाणि लक्षणानि खण्डितानि भवन्ति ग्रन्थकारैरपि महत्या आरभट्या यल्लक्षण स्थिरीकृत तदपि लक्ष्यासंग्राहकत्वेन परै खण्डितमेव । तदेतद् यथावसर निरीक्षणीयम् । एव यदधिकलक्ष्यसग्राहकं तदे लक्षणं व्यवहार्यम् । नादृश शब्दार्थात्रेव । उक्त चाचार्यरुद्रेतेन ‘ननु शब्दार्था काव्य- मित्यादि । नत्र शब्दार्थयो. परिष्कारका गुणाल्कारादयो द्रष्टव्याः । एतदादि पय लोच्यैव ‘ध्वनिर्न काव्यमाहुस्तच्छाब्दार्था वगाहने स्पष्टम् । तावपि लक्ष्याभिमतौ व्यङ्ग्य साममद्भावः ॥’ इति निबडन् । इह आत्मत्वव्यपदेशोऽर्थभागस्यैव वास्तविक सारभूतत्वात् । अन्यत्थ तु औपचारिक इत्यपि बोद्धव्यम् ॥ २ काव्यप्रकाशेति । वृत्तिकार एव कारिकाकारः । तथाहि—‘माला तु पूर्ववत्’ इति काव्यप्रकाशगतेन ‘पूर्ववत्’ इति कथनेन वृत्तिकारकारिकाकारयोरेकत्व एव वृत्तिप्रदर्शितायामालोपमायाः ‘पूर्ववत्’ इति दृष्टान्तयोरुपन्यासः सगच्छते । ‘मालोपमा ० रचितोपमा तु ना दृष्टान्तीकृतेति वृत्तिकृत्कारिकाहतोरेक्य मयमेव राग- ० मचिन्त ॥’ इति सुशामान् भीमसेनदीक्षिता अपि वदन्ति ॥ क.च., 'इति' इति षड्पुस्तके नास्ति । २ 'तेन-' इत्यादि 'पुन क्वापि, इति' ३. ग-पुस्तके नास्ति । ३ 'स्वरूप' ग-पुस्तके नास्ति । ४ 'आह' क.ख.घ-पुस्तकेषु 'अथ शब्दार्थौ - ' इति । ५ 'विश्वेश्वरानन्द' इत्यत्र घट पुस्तकान्तरे नास्ति.