भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 81, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 81

६ साहित्यदर्पणे 'त्रिवर्गसाधनं नाट्यम्' इति च। विष्णुपुराणेऽपि- 'काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च। शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः॥' इति। तेने हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते। एतेनाभिधेयं च प्रदर्शितम्। तत्किंस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह- 'तद्दोषौ शब्दार्थौ' श्रुतिशून्यन्यतरजनक- संस्कारविशेष ॥ त्रिवर्गो धर्मार्थकामाः। नाट्यमभिनय- प्रधानं नाटकादि॥ काव्यालापा इति। गद्यात्मकाः शब्दादी इत्यर्थे॥ कवि- कास्थं 'तेन-' इत्यादि व्याख्यायते-तेनेत्यादि। एतेन 'चतुर्वर्गफलप्राप्ति-' इत्यादिश्लोकेन। अभिधेयं चेति। चकारेण प्रयोजनसम्बन्धयोर्लाभः। सम्ब- न्धश्चात्र प्रयोजनाभिधेययो कार्यकारणभावरूपः ॥ कश्चिदिति। काव्यप्रकाशस्य कारिकाकार इत्यर्थः। तदिति। काव्यमित्यर्थः। शब्दार्थाविति। विनिगमना- विरहेण उपस्थापकत्वसम्बन्धेनान्वितशिष्ट शब्दः। उपस्थाप्यतासम्बन्धेन शब्दविशिष्ट- श्चार्थः काव्यमित्यर्थः। अत्र शब्दार्थयोर्विशेषणविशेष्यभावे व्यञ्जकतावच्छेदकतान्या- वैचित्र्यविशेषरूपालंकारप्रयोजकत्वाप्रयोजकत्वाभ्यां प्रधानाप्रधानभावो नियामकः। न च यत्रोभयोर्व्यञ्जकत्वं वैचित्र्यविशेषाधायकत्वं वा तत्र का गतिरिति वाच्यम्। बाहुल्येन व्यञ्जकत्वेन चमत्कारातशयाधायकत्वेन वा तत्र व्यवहारोपपत्तेः। न च तथापि यत्र व्यञ्जकयोर्वैचित्र्यविशेषप्रयोजकयोर्वा तुल्यत्वं तत्र व्यवहारानुपपत्ति-

  1. स्वरूपमिति। वस्तुतो मन्येव काव्यस्य तादृशो व्यवहारमन्तरेण किमपि निर्दुष्टं लक्षणं नास्ति। ततः सुन्दोपसुन्दन्यायेन सर्वाणि लक्षणानि खण्डितानि भवन्ति। ग्रन्थकारैरपि महत्या आरभट्या यल्लक्षणं स्थिरीकृतं तदपि लक्ष्यासङ्ग्राहकत्वेन परैः खण्डितमेव। तदेतद् यथावसरं निरीक्षणीयम्। एवं यदधिकलक्ष्यसङ्ग्राहकं तदेव लक्षणं व्यवहार्थम्। तादृक् शब्दार्थावेव। उक्तं चाचार्यरुद्रेन 'ननु शब्दोथ काव्य-' इत्यादि। तत्र शब्दार्थयोः परिष्कारका गुणाकारादयो द्रष्टव्याः। एतददि पर्या- लोच्यैव 'कविकर्म काव्यमाहुस्तच्छाब्दार्थौ वगाहते स्पष्टम्। तावपि लक्ष्याभिमतानि- त्युक्तं शास्त्रसद्भावः॥' इति निबन्धृन्। इह आत्मत्वव्यपदेशोऽर्थभागस्यैव वास्तविकः, सारभूतत्वात्। अन्यस्य तु औपचारिक इत्यपि बोध्यम्॥
  2. काव्यप्रकाशेति। वृत्तिकार एव कारिकाकारः। तथाहि- 'माला तु पूर्ववत्' इति काव्यप्रकाशकारिकायां 'पूर्ववत्' इति कथनेन वृत्तिकारकारिकारयोरेकत्व एव वृत्तिमात्रप्रदर्शितमालोपमायाः 'पूर्ववत्' इति दृष्टान्ततोपन्यासः संगच्छते। 'मालोपमा तु लक्षिता कारिकायां तु सा दृष्टान्तीकृतेति वृत्तिकृत्कारिकारूतोरेक्यं स्वयमेव राजा- नकैः सूचितम्॥' इति सुधासागरे भीमसेनदीक्षिता अपि वदन्ति॥ क. स, 'अपि' इति घ पुस्तके नास्ति २ 'तेन-' इत्यादि 'पुनः कापि, इति' ऽतो ग पुस्तके नास्ति ३ 'तावत्' ग पुस्तके नास्ति ४ 'आह' क ख घ-पुस्तकेषु ५ 'अत्र शब्दार्थयो-' इत्यादि 'विशेष्यत्वोपगमात्' इत्यन्तः पाठः पुस्तकान्तरे नास्ति 1