साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 85, कुल 506 में से
संदर्भ में पढ़ें३२ साहित्यदर्पणे प्रथमं प्रतिपद्यते, अनन्तरं च 'गां बधान' 'अश्वमानय' इत्यादावावापो- द्वापाभ्यां गोशब्दस्य 'सास्नादिमानर्थः' आनयनपदस्य च 'आहरणमर्थः' इति संकेतमवधारयति । क्वचिच्च प्रसिद्धपदसन्निहारात्, यथा— 'इह प्रफुल्लकमलोदरे मधूनि मधुकरः पिबति' इत्यत्र । क्वचिदाप्तोप- न चेष्टया गामानयने गोचरं ज्ञानमनुमिनोति, तद्गोचरप्रवृत्तिं प्रति तद्गोचरज्ञानस्य हेतुत्वात्, तत्रान्यत्र ज्ञानस्य को हेतुरित्याकाङ्क्षायामुपस्थितत्वात् 'गामानय' इति शब्देन गामानयने हेतुतां कल्पयतीति भावः । अश्वमानयेत्यादाविति । ऽर्थे इति शेषः । आवापोद्वापाभ्यामिति । आवापोद्वापाभ्यामन्वयव्यतिरे- काभ्यां 'गां बधान' इत्यत्र गोपद्गते सास्नादिमत्पदार्थबोधः । आनयनपदव्यति- रेकेणानयनपदार्थस्याभावः । 'अश्वमानय' इत्यत्र गोपद्व्यतिरेकेण सास्नादिमद- र्थस्याभावः । आनयनपद्मत्त्वे आहरणपदार्थबोध, इत्येवंरूपान्वयव्यतिरेकौ । संकेतग्रहमवगमयितुम् । सा चातिरेकितया न तस्माच्छब्दादयमर्थो बोद्धव्य इती- श्वरेच्छा । ईश्वर पदतया पामरादीनामपि शाब्दबोधोदयादतिप्रसङ्गाच्च । अत एवा- धुनितानां चैत्रादिपदानापि संकेतं सुगच्छन्ते । न चाशौचव्यपगमे पित्रा कल्पितमिति गामानयनं चैत्रादिपदानामीश्वरसंकेतितवमिति वाच्यम् । तत्र शाब्दबोधाभावेन वाटभित्त्यादिसंकेतितवित्थादिपदानां संकेतासङ्गतिप्रसङ्गात् । त- दयं पदार्थविशिष्टानां शब्दानां कल्पने 'अयं घटपदमित्येय' इत्यादिप्रती- तिर्न स्यादित्याक्षेपः । क्वचिदिति । प्रसिद्धस्य गृहीतसंकेतस्य पदस्य गम- नार्थस्य सन्निधानात् । ननु तेषामित्यादिग्रन्थे । प्रेक्षावद्भिः प्रायेण योग्यपदा- र्थानामेव संसर्गे प्रयुज्यत इत्यादिवचनतः प्रसिद्धपदार्थान्वययोग्यपदार्थे ऽपि संकेतं निश्चिनोति भावः । एवं च संशयस्य योग्यतासत्त्वेऽपि वक्तृत्त्वानुपपत्ति- र्न स्यादित्यन्यथाभावं न सांशय्यः । संकेतववारयतीत्यनुपदः । एवम- ग्रेऽपि । प्रफुल्लेति । प्रफुल्लत्वे । 'इह प्रफुल्ले मधूदरे मधु पिबति' इति पदा- नामन्वययोग्यार्थज्ञानेन मधुकरपदस्य भ्रमर एव शक्तिग्रहः । मक्षिकादौ प्यन्वययोग्येऽपि प्रफुल्लकमलोदरोद्भवमकरन्दवति शक्तिग्रहः । भ्रमरसन्नि- धानेनैव मक्षिका मधु पिबतीति इत्यत्र शब्देन भ्रमरपदससन्निधानन्मधुकरपदस्य शक्तिग्रहो दृश्यते । उत्तरोत्तरस्य प्रमाणेऽवचनात् । एतत्पदसामर्थ्यात् । क्वचि- दाप्तोपदेशादिति ग्रन्थकृताऽप्युक्त्या । तदुक्तम्—'शक्तिग्रहं व्याकरणोपमान- कोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति प्रसिद्धपदस्य सान्निध्यात्' इति । तत्र व्यवहारत इति प्रथममुपपादितम् । कोशोप- मानाभ्यां व्यवहारत एव शक्तिग्रहे द्वितीयादिप्रवृत्तिः सामाधानम् । प्रसिद्धपद- सन्निधानादाप्तोपदेशाच्च प्रथमतोऽपि शक्तिग्रहो जायते । आप्तोपदेशेन यथा 'पिको मधुरं कूजति' अत्र कोकिल इति बोधनात् । व्याकरणेन