भारतकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 147, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 147

८२ समराङ्गणसूत्रधारे शक्रं ते चाष्टभिः कुम्भैः सुहृदैर्वारिपूरितैः । स्वर्चितैरभिषिञ्चेयुर्मूले 'चाकृष्टमण्डलैः ॥ १३२ ॥ स्तुतैर्वैजयिकैर्मन्त्रैः स्तुतिभिश्च द्विजोत्तमैः । राज्यमाघोषयेदेतैरात्मना च महीपतिः ॥ १३३ ॥ कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत् । दोषान् जनपदस्यापि दशाहं विषहेत वै ॥ १३४ ॥ सुवासा भूषितः स्नातः सदाचारप्रयत्नवान् । ध्वजोच्छ्रायं शुचिर्भूयः सबलः प्रतिपालयेत् ॥ १३५ ॥ सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रियः । कृताञ्जलिपुटश्चेमं मन्त्रं स्थपतिरुच्चरेत् ॥ १३६ ॥ ओं नमो भगवति वागुले सर्वविटप्रमर्दनि स्वाहा । सुरासुराणां सङ्ग्रामे प्रवृत्ते त्वं यथोत्थितः । तथा नृपस्य देवेन्द्र ! जयायोत्तिष्ठ पूजितः ॥ १३७ ॥ स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम् । कारयेद् देवराजस्य ध्वजदण्डसमुच्छ्रयम् ॥ १३८ ॥ स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः । पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥ १३९ ॥ सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः । हृष्टैरन्यैश्च वादित्रैर्वाद्यमानैर्महास्वनैः ॥ १४० ॥ गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः । हृष्टोत्कृष्टोद्धतध्वानैर्गजस्यन्दनवाजिभिः ॥ १४१ ॥ तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः । दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छ्रयेत् ॥ १४२ ॥ यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च । नृपक्ष्शिवाहनादीनां निमित्तान्यवलोकयत् ॥ १४३ ॥ १ 'वा', । २ 'अ' ख. पाठः।

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र) · पृष्ठ 147, कुल 726 में से · BharatKosha