समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 149, कुल 726 में से
संदर्भ में पढ़ें८४ समराङ्गणसूत्रधारे प्रतिष्ठां लभते भूमौ भ्रमं भित्त्वा यदि ध्वजः । सशैलकाननामुर्वी तदा जयति पार्थिवः ॥ १५७ ॥ दिक्सर्पणे फलं प्रोक्तमित्यव्यङ्गस्य वज्रिणः । विपरीतं तदेवोक्तं व्यङ्गस्य निखिलं पुनः ॥ १५८ ॥ यदि स्वलङ्कृतः पूर्वं योज्यमानः शतक्रतुः । उत्क्षिप्तो रज्जुयन्त्रेण स्तोकमर्धे स्थितोऽपि वा ॥ १५९ ॥ शय्यायां यदि वा भूमावुत्सङ्गे वा पतत्यसौ । तदा नृपं राजदारान् कुमारं वा विनाशयेत् ॥ १६० ॥ उत्थितोऽर्धोत्थितो वापि यदि क्षुभ्यति कम्पते । स्थानान्तरं व्रजेद् वापि सञ्चरेद् वा कथञ्चन ॥ १६१ ॥ विगृह्यते तदा भूपो भ्रश्येति स्थानतोऽपि वा । भयाज्जनपदो वास्य चलत्येव न संशयः ॥ १६२ ॥ आकृष्टासु यदाष्टासु छिद्यते कापि रज्जुषु । अमात्यमरणं तत् स्यादेकैकांशन निश्चितम् ॥ १६३ ॥ मूलमध्याग्रभागे वा प्रोच्छ्रितो³ यदि ⁴भज्यते । पौरसेनापतिनृपान् क्रमशॊ हन्त्यसौ तदा ॥ १६४ ॥ छत्रार्कवेणुगुल्मेन्द्रशीर्षकण्ठगुणा यदि । पतन्ति भूमाविन्द्रो वा तदा हन्ति महीपतिम् ॥ १६५ ॥ नृपो वधमवाप्नोति तैर्भग्नैः पतितैर्धुतैः⁵ । अभग्नैर्विधुतैरेतैः क्षयं व्रजति साधनम् ॥ १६६ ॥ क्रमशॊ हन्युरादर्शवैजयन्तीन्दुतारकाः । पतन्त्यो ह्वचमूनाथपुरोधःस्त्रीर्महीपतेः ॥ १६७ ॥ माल्यैर्विभूषणैर्यानैः शस्त्रवस्त्रफलाशनैः । यान्ति केतुच्युतैरेतै राज्ञस्तान्येव संक्षयम् ॥ १६८ ॥ १ द. स्तोकमर्धोत्थितोऽपि वा । २ क. भ्रश्यते । ३ द. प्रोत्थितो । ४ क. भिद्यते । ५ क. द्रुतैः । ६ क. ˚द्रुतै˚ ।